________________
आ. स. २०
लोभेन जुगुप्समानो लब्धान् कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सका न जानाति नापि पश्यति, अपश्यंश्चाप्रत्युपेक्षणयाऽभिकासति । यच्च प्रथमोद्देशकेऽप्रशस्तमूलगुणस्थानमवाचितच वाच्यमिति, आह च-'अहो य राओ' इत्यादि, अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविएचित्तः अत्र-शस्त्रे पृथिवीकायाधुपघातकारिणि पौनःपुन्येन वर्तते । किं च-'से आयबले' आत्मनो बलं-शक्त्युपचय आत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपार्यरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीर्विधते, तथाहि'मांसेन पुष्यते मांसमितिकृत्वा पश्चेन्द्रियघातादावपि प्रवर्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च 'ज्ञातिवलं' स्वजनबलं मे भावीति, तथा तन्मित्रवलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तत्प्रेत्यबलं भविप्यतीति वस्तादिकमुपहन्ति, तद्वा देववलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं वा भे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभार्ग वा प्राप्स्यामीति चौरानुपचरति, अतिथिबलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, उक्तं च-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १ ॥" एतदुक्तं भवति-तद्वलार्थमपि प्राणिषु दण्डो न निक्षेप्शव्यः इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तः 'विरूपरूपैः'नानाप्रकारैः पिण्डदानादिभिः कायः 'दण्डसमादान'मिति दण्ड्यन्ते-व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं-ग्रहणं समादानं, तदात्मबलादिकं मम नाभविष्यत् यद्यहमेतन्नाकरिष्यमित्येवं 'संप्रेक्षया' पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिहभवमाश्रित्य दण्ड|समादानकारणमुपन्यस्तम् , आमुष्मिकार्थमपि परमार्थमजानानैर्दण्डसमादानं क्रियत इति दर्शयति-पावमोक्खो'त्ति | लोक.वि.२ इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, 'इति' हेतौ, यस्मात्स मम भवीष्यतीति मन्यमानः दण्डसमादानाय प्रवर्तत इति, तथाहि-हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपापविध्वं
उद्देशकः २ सनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युदाहितमतयो जुह्वति, तथा पितृपिण्डदानादौ बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्भुक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थ दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणाः अनेकभवशतकोटीदुर्मोचमघमेवीपाददत इति । किञ्च-'अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम् , अथवा आशंसनम् आशंसा-अप्राप्तप्रापणाभिलापस्तदर्थ दण्डसमादानमादत्ते, तथाहि-ममैतत् परुत्सरारि वा प्रेत्य वोपस्थास्यते इत्याशं-IP सया क्रियासु प्रवर्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च-"आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसाना, कालः प्रयाति मरणावधिरेव पुंसाम् ॥१॥ एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर । इत्याद्याशाग्रहग्रस्तैः, क्रीडन्ति धनिनोऽर्थिभिः ॥२॥" इत्यादि ॥ तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह
श्रीआचारावृत्तिः (शी०)
॥११५॥
तं परिणाय मेहावी नेव सयं एएहिं कजेहिं दंडं समाभिजा नेव अन्नं एएहिं कजेहिं दंडं समारंभाविजा एएहिं कज्जेहिं दंडं समारंभंतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिपहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासि तिबेमि (सू०७६)
लोगविजयस्स बितिओ उद्देसो ॥२॥ 'तदिति सर्वनाम प्रक्रान्तपरामर्शि, 'तत्' शस्त्रपरिज्ञोक्तं स्वकायपरकायादिभेदभिन्नं शस्त्रम् , इह वा यदुक्तम् अप्रशस्तगुणमूलस्थानं-विषयकषायमातापित्रादिकं, तथा कालाकालसमुत्थानक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् 'मेधावी' मर्यादावर्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह-'नेव सयं' इत्यादि, नैव 'स्वयम्' आत्मना एतैः-आत्मबलाधानादिकैः 'कार्यैः' कर्त्तव्यैः समुपस्थितैः सभिः 'दण्डं' सत्त्वोपघातं समारभेत् , नाप्यन्यमपरमेभिः कार्हिसानृतादिकं दण्डं
समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् । एष चोपदेशस्तीर्थकुद्भिरभिहित इत्येतत् सुधशर्मस्वामी जम्बूस्वामिनमाहेति दर्शयति-'एस' इत्यादि, 'एप' इति ज्ञानादियुक्तो भावमार्गो योगत्रिककरणत्रिकेण
दण्डसमादानपरिहारलक्षणो वा 'आय' आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः-संसारार्णवतटवर्तिनः क्षीणघातिकताम्र्मांशाः संसारोदरविवरवर्तिभावविदः तीर्थकृतस्तैः 'प्रकर्षण' सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा
योगपद्याशेषसंशीतिच्छेत्र्या प्रकर्षेण वेदितः कथितः प्रतिपादित इतियावत्, एवम्भूतं च मार्ग ज्ञात्वा किं कर्त्तव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org