________________
मङ्गलाचरणम्
पणमह जिणवरवसहं गणहरवसहं तहेव गुणहरवसहं । दुसहपरीसहवसहं जइवसहं धम्मसुत्तपाढरवसहं ॥ १ ॥
जेणिह कसायपाहुडमणेयणयमुज्जलं अणंतत्थं । गाहाहि विवरियं तं गुणहरभडारयं वंदे ॥ २ ॥ जो अज्जमखुसीसो अन्तेवासी वि णागहत्थिस्स । सो वित्तिसुत्तकत्ता जइवसहो मे वरं देऊ ॥ ३ ॥
श्रीवीरसेन इत्याप्तभट्टारकपृथुप्रथः । स नः पुनातु पूतात्मा वादिवृन्दारको मुनिः ॥४॥ यस्य प्रांशुनखांशुजालविसरद्वारन्तराविर्भवत्पादाम्भोजरज:पिशङ्गमुकुटप्रत्यग्ररत्नद्युतिः । संस्मर्ता स्वममोघवर्षनृपतिः पूतोऽहमद्येत्यलम् स श्रीमाञ्जिनसेनपूज्यभगवत्पादो जगन्मङ्गलम् ॥ ५ ॥ तयोः सत्कीर्तिरूपां हि जयधवलभारतीम् । धवलीकृतनिःशेषभुवनां तां नमाम्यहम् ।। ६ ।।
भूयादावीरसेनस्य वीरसेनस्य शासनम् । भूयादावीरसेनस्य वीरसेनस्य शासनम् ॥ ७ ॥ सिद्धानां कीर्तनादन्ते यः सिद्धान्तप्रसिद्धवाक् । सोऽनाद्यनन्तसन्तानः सिद्धान्तो नोऽवताच्चिरम् ।। ८ ॥
(१) जयध० सम्यक्त्व अनु० । (२) जयध० भा० १ पृ०४ । (३) जयध० भा० १ पृ० ४। (४) संस्कृत महापुराण उत्थानिका । (५) प्रशस्ति उत्तरपुराण । (६) 'धवलां भारतीम्' के प्राधारसे। (७-८) प्रशस्ति जयधवला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org