________________
88
SETUBANDHA
देशतयावस्थिते सति । प्रताप इति जात्यपेक्षया द्वित्वेऽपि एकवचनमिसि शब्दगतिः Kula says लोकालोकान्तराले रवि(३)तेजोविधेयीभूतचक्रवालगिरिपरिच्छिन्नभवनोदरे। .... लङ्काप्राकारमध्ये परं रावणप्रतापः, अन्यत्र सर्वत्र रामस्येत्यर्थः.
___107. K says त्रिदशानां जनितानुरागे रामे चन्द्र इव, मथितात् समुद्रात् चन्द्र इब, उत्तीर्णे सति मथितस्य पर्वतपतनक्षोभितस्य सागरस्य लक्ष्म्या समृद्ध्या सह प्रसन्ना शोभा जाता । यथा पूर्व मथितस्य (सागरस्य) लक्ष्म्या सह प्रसन्ना मदिरा जाता तद्वदिति.
_MY says मथने लक्ष्मीर्घनाधिदेवता, शोभातीता काचिदेवतैव, प्रसन्ना मदिरेति स्फुटम् । सम्प्रति तु सागरे भवत्प्रसादस्थायां शोभायामुपचर्यते, प्रसन्ना शोभा भवति । तेन प्रसादजनिता शेभेत्यर्थः । लक्ष्मीस्तु सेतो रामसंचरणजनिता शोमेति भेदो द्रष्टव्यः । उत्तीर्णे समुद्रमतिक्रान्ते रामे, चन्द्रे तु समुद्रादुदिते सतीति । त्रिदशानुरागजननं तु द्वयोः साधारणम्,
... Kula says लक्ष्म्या समं जयलक्ष्म्या सह रामे जगदाह्लादकत्वात् मृगलाञ्छन इव रावणादिजगत्कण्टकक्षयहेतुत्वात् त्रिदशजनितानुरागे उत्तीर्णे सति मथितस्य क्षोभितस्य सागरस्य शोभा प्रसन्ना अनाविला जाता । यथा पूर्व देवदानवैः मथितस्य सागरस्य लक्ष्म्या सह चन्द्रे सुधानिधानत्वात् त्रिदशजनितानुरागे (8) उत्थिते सति शोभा प्रसन्नामृत्. R says शोभयतीति शोभारूपा प्रसन्ना मदिरा । अथवा शोभानाम्नी काचिदप्सरःश्रेष्ठा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org