________________
SETUBANDHA
K sas पर्वतपतनक्षोभितेन समुद्रेण दूरमाविद्धाः पुनर्निवृत्ताः', त्रुटितमृदितैः हरिचन्दनैः मिलन्तः संसृज्यमानाः, रभसोक्षिप्ताः संभ्रमादुत्पतिताः महानदीनां पर्वतगतानां मत्स्याः उदधिं विरसमास्वादयन्ति स्म. MY says मोटितमृदितचन्दनेन अतिपरुषजलसंगता; उच्चलता जलेन रभसोक्षिप्ताः शैलनदीमत्स्याः . Kula says अभिमुखगिरिपतनेन दूरमाविद्धाः क्षिप्ताः ततो निवृत्ताः मोटितो भग्नो मृदितो यो हरिचन्दनः तेन माद्यमाना हर्षिता, अतो रभसोत्क्षिप्ता वेगेनोत्पतिता महानदीमत्स्याः क्षारजलत्वात् विरसमुदधिमास्वादयन्ति पिबन्ति. Kula renders maijjanta as माद्यमानाः . R has मुद्यमानाः. He says उत्क्षिप्ता उत्प्लुत्योत्प्लुत्य परितो गताः. Lokanatha quoted in SC says माधन्तो हर्षेण विस्मृतात्मनः.
___ 38. K says आशीविषाणा मणिभिस्ताम्राः,....विषमनितम्बा निम्नोन्नतनितम्बा, दुमनिवहरुपरि हरिताः श्यामलाः, दरीषु रविप्रभाभिः परिहृताः (अन्धकारितदरीविवराः MY) शैलाः पर्यस्यन्ते स्म. Kula says विघटमानत्वात् विषमा नितम्बा येषां ते. He seems to have पर्यस्यन्ति. cf. verse 35. R says शैलाः पर्यस्यन्ति समुद्रे निपत्य विशीर्यन्ति.
___39. K says समुद्रे गिरिघातैरुत्क्षिप्तपानीये सति वेगादपवृत्तमधस्तात् अपसृतं, तुलाग्रेण यदृच्छया विषममयथापूर्वमागतं महीवेष्टं भुजगपतिना वलित्वा शरीरं वक्रीकृत्य कथमपि धारितम्. R says वलित्वा तिर्यगभूत्वा. MY says tulagga क्षण । विषमं कृच्छ्रम् । तुलाधृतमिव समोभयपार्श्व भूगोलं मध्ये शिरः कुर्वन् खलु शेषो धारयति । इदानीं तु गिरिघातोत्क्षिप्तसमुद्रजलतया विषमभरभागं वेगेन भारगुरुणि पाश्र्वान्तरे प्रवृत्तं भूवेष्टनं तत्रैव दूर (दूरे B) संचार्य शिरः कथमपि धृतवानित्यर्थः. 1. Deva says दूराविद्धनिवृत्ताः पर्वतैः सह दरमुदधौ क्षिताः......गिरिक्षोभितोदधिप्रतिहतेन नदोपुरेण सह दूरापविद्धाः पुननिवृत्ताः. _2. R says तुलाप्रेण काकतालीयसंवादेन अकस्मात् विषमागतं तिर्यग्भूतं....वेगेन हठादपवृतमपवर्तितुमारब्धम् । आदिकर्मणि क्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org