________________
38
SETUBANDHA
K says अथ महोदधेः सलिलं निहतोद्वृत्तजलजन्तु, कृष्टभ्रमत्काननभरितोत्सङ्गं कृष्टैः भ्रमद्भिः काननैः पर्वतसंबन्धिभिः भरितोपरिभागं, पर्वत - पतनात् प्रथममुच्चलितं नभसि उच्चलितं तत आगतं भूत्वा कलुषच्छायं जातम्.
MY says यथा कृष्टकाननं भवति तथा भ्रमत् तैरेव काननैः भृतोत्सङ्गमिति योज्यम्.
Kula says निहताः सन्त उवृत्ता उत्तानीभूता जलचरा यत्र । पर्वतपतनात् प्रथमोच्छलितागतं गमनागमनेन कृष्टैः काननैः भ्रमन् भरितरच उत्सङ्गो यस्य तत् महोदधिसलिलं कलुषच्छायं जातम्. Deva says उद्वृत्ताः परिप्लवमानाः
5. K says सलिलास्तमितः पूर्वपतितो महीधरो यस्य स तथाभूतः, पुनरपि अदृष्टमिलितगिरिसंघातः उपर्युपरि अदृष्टघटितगिरिसंघातः नमः सागरान्तरालोद्देशः तथाघटितपर्वत इव दृश्यते, रौद्रचातिशयेन प्रतिक्षणं क्रियमाणस्य पर्वत घटनस्यादर्शनात् प्रथमघटितपर्वतवानिवादृश्यत MY says कदाचिदपि पर्वतरहितो नादृश्यतेत्यर्थः. Kula says सलिले अस्तमिता महीधरा यत्र स तथा । पुनरपि अदृष्टमिलितो गिरिसंघातो यत्र स नभः सागर योरन्तरालोदेशः तथा तेन प्रकारेण घटितपर्बत इव दृश्यते । एतेन निर्झरसंततिः यथा प्रतिक्षणं विच्छिद्यमानापि तथाव्यवस्थितैव लक्ष्यते, तथैवाविच्छिन्नमिलितप्रक्षिप्तपतितानां गिरीणां संतान इत्युक्तं भवति.
6. K says कपिभिः शैला उद्धृताः समुद्रः कम्पितः । अतएव प्रतिपक्षस्य भयं जनितम् । तथाहि महालक्षाणां लक्षशब्देन साध्यमुच्यते अक्षुद्रलक्षाणामतुच्छानुभवानां हृदयसारा हृदयशक्तत्य एव न केवलं गुरवः, आरम्भा अपि गुरवो भवन्ति हि । लक्षस्य महत्त्वात् आरम्भाश्च तदनरूपा भवन्तीत्यर्थः.
MY says सारो बलम् । केवलं बुद्धिबलान्येव न गुरूणि किंतु प्रवृत्तयोऽपीत्यर्थः .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org