________________
CANTO VII
1. K says विक्रमस्य निकषं वानराणां भुजबलस्य परिच्छेदकमित्यर्थः । दशवदनस्य प्रतापलबनाय प्रतापाभिभवाय अग्रस्कन्धम् । स्कन्धः सेनाव्यूहः । अग्रिमस्कन्धः अग्रस्कन्धः । रावणवधसाधनत्वात् सेतुः सेनाव्यूहत्वेनोक्तः.
MY says निकषः स्वविक्रमपरीक्षास्थानम् । आगामिनः समरविक्रमस्य व्यञ्जनम्. Kula says विक्रमस्य शक्तिसम्पदो निकषमुत्कर्षापकर्षपरीक्षाहेतुम्. R says निकषं कषपाषाणम्.
2. K, MY and Kula read naha for mahi (R). K and probably MY read bharia for dharia (R and Kula).
K says नभस्तले भरिता घटिताः महीधरा वानरैरुदधौ सेतुरचनार्थ मुक्ताः । प्रलयोद्वहनदलिताः, बहुबाहुना वराहेण समुद्धृता मही चिरं जले स्थितत्वात् बहुधा खण्डिता हि भवति, एवमुद्वहनसमये दलिताः अधोगच्छन्तः महीतलविभागाः महावराहस्य भुजैर्यथा समुद्रे मुक्ताः क्लिन्नत्वादधःपतन्तो महीखण्डाः पुनर्गृहीत्वा समुद्रमध्यस्थायां भुवि यथा स्थापिताः तद्वदित्यर्थः.
__MY says प्रलयोद्धरणदलिता महीतलार्धान्ता महावराहमुजैः प्रथम नभस्तले घटिताः पश्चादुदधौ यथा व्यमुच्यन्त तद्वदित्यर्थः. .
Kula says अनन्तरं च आदिवराहभुजैः प्रलये यत् उद्वहनमुत्क्षेपणं तेन दलिता महीतलैकदेशा इव महीधरा वानरैः नभःस्थले धृताः सन्त उदधौ मुक्ताः .
____3. K says गिरिनिवहे निपतति सति समुद्रः तद्विस्तारच्छादितत्वात् न दृष्टः । दूरमधः अवपतिते सति वेगानिलाघातात् कम्पितः । क्षणात् पतिते सति विलुलितः क्षुभितः । गिरिनिवहे जलेषु अस्तमिते सेतुविरचनाभावात् निमग्ने सति परिवृद्धोऽभूत्.
4. K, MY, Deva and Kula read bharia for bhamira TURITE (R). K reads uccalia (Deva also) for ucсhalia (R and Kula).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org