________________
SETUBANDHA
243
जित्वा प्रारब्धकार्यासमर्थान् मत्वा . R says चन्द्रः किरणवज्रपातेन विरहिणो युष्मानभिभूय अतिवियोगिनं रामचन्द्रमभिभविष्यतीति सर्वतोऽनुचितमिति भावः .
28. K reads प्रणयेन for vinaena.
Kula says ननु उपक्रियमाणोऽपि विजातीयत्वात् पर एवायं रामः । तत् किमेतदर्थ नियोजयसीत्याशङ्कयाह । परोऽपि शत्ररपि विनयेन सेन्यमानः सन बान्धवात् स्नेहेनाभ्यधिको भवति, किं पुनः निष्कारणस्निग्धबान्धवः कारण विनैव अस्माकमुपकारकः कृतोपकारः उपकारेणोपगृहीतः । एतेन य एवं महात्मा शत्रं निर्जिय राज्यदानादस्माकमुपकर्ता स प्रत्युपकृतः किमिवाभीष्टं न करोतीत्यर्थः .
Ksays परोऽपि यः कश्चित् प्रणयेन सेव्यमानश्चत् बान्धवस्नेहाभ्यधिको भवेत् । पूर्वमेव कृतोपकारो निष्कारणस्निग्धबान्धवो दाशरथिः प्रणयेन सेव्यमानः किं पुनः अस्माकं किं न कुर्यादित्यर्थः .
29. K says राघवेण दत्ता ममेयं श्रीः अचिरप्ररूढा लतेव भवन्ती युष्मत्समरोत्साहे ऋताविव फलप्रदायिनि ग्रीप्मादावृताविव विलम्बमाने सति अद्यापि मुकुलयत्येव (Muda also ; मुकुलायते R and Kula) । फलं न दर्शयति । यथा लता फलं न दर्शयति तद्वदिति। राघवेण प्रतिपादिता राज्यश्रीः तस्य प्रत्युपकारे कृत एव मे भोग्या स्यादित्यर्थः ..
Muda says यथा ऋतौ विलम्बमाने लता मुकुलितैव तिष्ठति न फलति तथा श्रीरपि अस्मासु युद्धमनुत्सहमानेषु न फलति । वालिनमिवास्मान् उत्खाय अन्यस्मै रामो राज्यश्रियं दास्यतीति भावः .
30. K says एवं विसंवादिता एवं देवेन प्रतिकूलिता स्थितिरवस्था कियच्चिरमात्र वा रामं न मोक्ष्यति कियन्तं कालावयवं न मोक्ष्यति। अचिरात मीक्ष्यतीत्यर्थः। अत्र दृष्टान्तं व्यतिरेकेण आह-कमले समुत्पन्नापि श्रीः रजनीषु तत कमलमेव न मुञ्चति किम् । किमिति प्रश्ने। मुश्चत्येव । पुनरुदिते सुर्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org