________________
208
SETUBANDHA
Muda says स्थाने स्थितिवेलायां स्थित्या मर्यादया vahuttam पर्याप्त परिच्छिन्नमपि कल्पान्ते सर्वस्मिन्नपि भूमण्डले amāantam अधिकीभवन्तम् .
10. K, Kula and Muda read परिभुज्यमानम् for ua - (उप)
found in R,
Kula says दृश्यमानावस्थायाम् अभिरामम् । श्रयमाणमपि महिमातिशयात भवितृष्ण यथा अविगततृष्णं यथा भवति तथा श्रोतव्यगुणम् । परिभुज्यमानमपि पुंसां महारत्नप्रदानः शाश्वतसुखफलदम् । सुकृतस्य परिणाममिव पुण्यस्य महतः परिणाममिव । स च परिभुज्यमानोऽपि सुकृतस्य अतिमहत्तया शाश्वतसुखरूपं फलं ददाति . MY says सुकृतस्य परिणामो नात्यायुभोंगरूपो विपाकः . Kula says सुकृतस्य यागादिकर्मणः परिणाममिव फलनिष्पत्तिमिव । शाश्वतम् अविच्छिन्नं शुभफलं मणिमुक्तादिकं यस्य । पक्षे शुभफलं ददातीति तथा तम् .
_11. K says उतखातमं मथने देवैः स्वयमेवोधृतवृक्षम् उद्गृहीतपारिजातं, तदा शैलमिव । शैलोऽपि जनैः दारुक्रियार्थमुच्छिन्नद्रमो भवति । तथा लक्ष्मीविमुक्तं नारायणगृहीतया लक्ष्म्या विमुक्तम् । तदानीं हिमहतकमलाकरमिव । हिमोपहतस्य पद्माकरस्य नहि लक्ष्मीः न शोभास्ति । तथा दैतेयः पीतमदिरम् , मदिरा मथनोत्थिता वरुणस्य आत्मजा, चषकमिव । चषकमपि स्त्रीभिः पीतमचं भवति । बहुलपक्षप्रदोषमिव मुग्धचन्द्रेण परमेश्वराय भर्पितेन चन्द्रेण विरहितम् (मुग्धेन मनोहरेण कलामात्राशेषेण चन्द्रेण विरहितं बहुलप्रदोषमिव कृष्णपक्षरजनीमिव Kula)| दुर्वाससः शापेनोपहतानां देवानामेवमात्मसंभवैः पारिजातलक्ष्मीमदिराचन्द्रकौस्तुभामृतप्रभृतिभिः द्रव्यैः स्वास्थ्यं कृतवन्तमित्यर्थः । इदमौदार्यलक्षणमुक्तमाचार्यदण्डिना- न स्तुयसे नरेन्द्र त्वं ददासीति कदाचन । स्वमेव मत्वा गृहन्ति यतस्त्वद्धनमर्थिनः ॥ इति ।
अत्र केचिदन्यथापि व्याचक्षते । तद् यथा उत्खातद्रुमम् । वशेलं वशा स्ववशा इला भूमियस्य तम् । हिमहयकमलाकरम् । हिमशन्देन चन्द्र उच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org