SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 176 SETUBANDHA यस्य तत्तथा । प्रदीपादयो हि अधःप्रसृततिमिरा भवन्ति । दिकचक्रमपि तद्वदूर्ध्वप्रज्वलिततिमिरमिव स्फुरतीति । ज्वलनक्रिया च ध्वनिमती भवतीति स्फुटरवमित्युक्तम् . MY says दिक्चक्रमूर्ध्वप्रदीप्ततिमिरमिव प्रतिभाति । यत्र काष्ठादिवत् तिमिरं दह्यमानोर्ध्वप्रदेशमिव दृश्यते तत्तथोक्तम् . ___6. K has पुलकाञ्चित for pulaaia पुलकाचित . He says यस्य वामामेवं भवति तं नमतेति। मिलिताङ्गत्वेऽपि गाढोपगृहनमुखकान्तिदर्शनचुम्बनादीनां शरीरपृथग्भावसुलभानाम् अननुभवात् विप्रयोग इव कामातुरं भवतीति भावः। प्रथम सत्रीलिंत वेपते । वीलैव ब्रीलितम् । भावे निष्ठाप्रत्ययः । पत्युरतिसन्निकर्षात् सव्रीलं भूत्वा साध्वसाद्वेपते । अयमभिप्रायः-आलम्बनविभावभूतस्य देवस्य सन्निधानादवतरता रत्याख्येन स्थायिभावेनैवम् आकुलीभवतीति । अनन्तरमनुभावैः सात्त्विकैश्च पुलकाञ्चितस्तनकलशं पुलकपूरितस्तनकलशं भूत्वा वलितुमिच्छति । इच्छतेः महशब्दादेशः। चलितुमिच्छति भावपरिणामानुरूपं किंचित चेष्टितुमिच्छतीत्यर्थः। अनन्तरक्षणे व्यभिचारिभिः त्रयस्त्रिंशता रसत्वेन परिणमता भावेन प्रेमस्वभावविमोहितम् । प्रेम । प्रणयोत्कर्षः । यथोक्तं भावविवेके "इतरेतरसंयोगप्ररूढमदहितम् । यद् गात्राणां सुखकर प्रणयः स निगद्यते ॥ स एव प्रचयाद्वस्तुप्रयुक्तो विवश नरम् । संततं तत्समीपे तु क्षिपन् प्रेमतयोदितः ॥" इति । तत्समीपे पत्युः समीपे प्रेरयन्नित्यर्थः। एवंलक्षणस्य प्रेम्णः स्वभावेन मोहितं कृत्याकृत्यविवेकरहितं भूत्वा द्वितीयपार्श्वगमनोत्सुकम् अर्धात्मना पृथग्भावमसहमानमीश्वरभागमपि व्याप्तुमुत्सुकं भवतीति . MY says गतभूयिष्ठत्वेऽपि लज्जायाः सविशेषतया वलितुं परावृत्त्य अवस्थातुमिच्छति । अथवा प्रेमवशात् क्षणार्धमपि व्याप्यावस्थातुमभिलपतीत्यर्थः . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001384
Book TitleSetubandha
Original Sutra AuthorN/A
AuthorKrishnakant Handiqui
PublisherPrakrit Text Society Ahmedabad
Publication Year1976
Total Pages812
LanguageEnglish, Sanskrit
ClassificationBook_English & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy