SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ २६ वजालग्गं [87 : ८.७ 87) जं जि खमेइ समत्थो घणवंतो जं न गव्वमुव्वहछ । जं च सविज्जो नमिरो तिसु तेसु अलंकिया पुहबी ॥ ७ ॥ 88 ) छंद जो अणुवट्टइ मम्मं रक्खर गुणे पयासेइ । सो नवर माणुसाणं देवाण वि वल्लहो होइ ॥ ८ ॥ 89) छणवंचणेण वरिसो नासह दिवसो कुभोयणे भुत्ते । कुकलत्तेण य जम्मो नासइ धम्मो अहम्मेण ॥ ९ ॥ ५०) छन्नं धम्मं पयडं च पोरिसं परकलत्तवंचणयं । गंजणरहिओ जम्मो राढाइत्ताण संपडइ ॥ १० ॥ 87) [ यत् खलु क्षमते समर्थों धनवान् यन्न गर्वमुद्रहति । यच्च सविद्यो नम्रस्त्रिभिस्तैरलङ्कृता पृथ्वी ।। ] त्रिभिरेवालङ्कृता पृथ्वी । कैः -कैरित्याह । यत् क्षाम्यति समर्थः । धनवांश्च यद्गर्वं नोद्वहति । यच्च - सविद्यो नमिरो नम्रः ॥ ८७ ॥ I 1 ४२) [ छन्दं योऽनुवर्तते मर्म रक्षनि गुणान् प्रकाशयति । स न केवलं मानुषाणां देवानामपि वल्लभो भवति ||] छन्दं योऽनुवर्तते । कोऽर्थः । स्वामिनं प्रति । स्वामी कथयति दक्षिणामपि पूर्वी दिशं यदा तदा यः -सेवकः स वक्ति " इयं पूर्वैत्र दिग् न दक्षिणा " । तथा वटो वटोऽयं न भवति, किंतु पिपल इति, तत्र पिपल एवेति वक्ति । इदं छन्दानुवर्तनम् । मर्म रक्षति, गुणान् प्रकाशयति । स न केवलं मनुष्याणां, देवाना - वल्लभो भवतीत्यर्थः ॥ ८८ ॥ 89) [ क्षणवचनेन वर्षो नश्यति दिवसः कुभोजने भुक्ते । कुकलत्रेण च जन्म नश्यति धर्मोऽधर्मेण ।। ] क्षण उत्सवो दीपोत्सवादिः । तस्य - वञ्चनेनाकरणेन वर्षो नश्यति । दिवसः कुभोजने भुक्ते । जन्म कुकलत्रेण, अधर्मेण धर्मोऽपि नश्यति ॥ ८९ ॥ 90 ) [ छनो धर्मः प्रकटं च पौरुषं परकलत्रवञ्चनम् । कलङ्करहितं जन्म भव्यात्मनां संपद्यते ॥ ] धर्मश्छन्नोऽप्रकटः । प्रकटं च पौरुषम् । परकलत्रवञ्चनम् । कलङ्करहितं जन्म | राढाइत्ताण भव्यात्मनां भाग्यवतामिति यावत् । भवति संपद्यते ।। ९० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy