________________
--69 : ६.५ ]
मित्तवज्जा 66) पडिव दिणयरवासराण दोण्डं अखंडियं सुहइ ।
सूरो न दिणेण विणा दिणो वि न हु सूरविरहम्मि ॥२॥ 67) मित्तं पयतोयसमं सारिच्छं जं न होइ किं तेण ।
अहियाएइ मिलंतं आवइ आवट्टए पढमं ॥३॥ 68) तं मित्तं कायव्वं ज किर वसणम्मि देसकालम्मि।
आलिहियभित्तिबाउल्लयं वन परंमुहं ठाइ ॥४॥ 69) तं मित्तं कायव्वं जं मित्तं कालकंबलीसरिसं।
उयएण धोयमाणं सहावरंगं न मेल्लेइ ॥५॥
66) [प्रतिपन्नं दिनकरवासरयोर्द्वयोरखण्डितं शोभते। सूर्यों न दिनेन विना दिनमपि न खलु सूर्यविरहे ।।] द्वयोर्दिनकरवासरयोरखण्डितं प्रतिपन्नं शोभते। तदेव दर्शयति । सूर्यो न दिनेन विना दिनमपि सूर्येण विना न भवति । पूर्वोऽप्यर्थोऽनेन गाथान्तरेणोद्वेलितः ।। ६६ ।। . 67) [ मैत्रं पयस्तोयसमं सदृक्ष यन्न भवति किं तेन । अधिकायते मिलदापद्यावर्तते प्रथमम् ।। मित्रं ( ? मैत्रम् ? ) पयस्तोयसमम् । सादृश्यं (? सदृशम् ? ) यन्न भवति किं तेन । अधिकायते मिलदेकीभवत् । आवर्ते प्रथमम् आयाति तोयम् ।। ६७ ॥
___68) [तन्मित्रं कर्तव्यं यत् किल व्यसने देशकाले। आलिखितभित्तिपुत्रक इव न पराङ्मुख तिष्ठति ।। ] तन्मित्रं कर्तव्यं यत् । किर इति किलार्थे । व्यसने देशकाले च । आलिखितं भित्तौ बाउल्लयं चित्रलिखितपुत्रक इव न पराङ्मुखं तिष्ठति । यादृग्विधो लिखित श्चित्रपुरुषः संमुखस्तद्वद्यो दुःखकाले संमुखं ( ? पराङ्मुखः? ) न भवति, पृष्ठं न प्रयच्छति ।। ६८ ॥
69) [तन्मित्रं कर्तव्यं यन्मित्रं कालकम्बलीसदृशम् । उदकेन धाव्यमानं स्वभावरङ्ग न मुञ्चति । ] तन्मित्रं कर्तव्यं यन्मित्रं कालकम्बलीसदृशम् । उदकेन धाव्यमानं स्वभावरङ्गं न मुञ्चति । यथा कृष्णः कम्बलः शतशः पानीयेन धौतः कृष्ण एव तथा यन्मित्रमापद्ग्रस्तमपि स्वभावं न मुश्चति ॥ ६९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org