________________
--54 : ५.६ ]
दुज्जणवज्जा 52) अकुलीणो दोमुहओ ता महुरो भोयणं मुहे जाव ।
मुरउ व्व खलो जिण्णम्मि भोयणे विरसमारसइ ॥४॥ 53) निद्धम्मो गुणरहिओ ठाणविमुक्को य लोहसंभूओ।
विंधइ जणस्स हिययं पिसुणो बाणु व्व लग्गंतो॥५॥ 54) जम्मे विजं न हयं न हु होसइ जं च जम्मलक्खे वि।
तं जंपति तह च्चिय पिसुणा जह होइ सारिच्छे ॥६॥ मध्यात्र लिश्चित्तवक्रः । अत एव नहरणसरिच्छो नखल्लूसदृक्षः। सोऽपि नखमांसयोर्भेदनं छेदनं तज्जनकः । दुर्मुखकः ( ? द्विमुखकः ? )। अस्ति( ? अस्थि-) खण्डनसमर्थः । तथापि खलु मध्यावलितो मध्ये वक्रीकृतः॥५॥
52) [ अकुलीनो द्विमुखस्तावन्मधुरो भोजनं मुखे यावत् । मुरज इव खलो जीर्णे भोजने विरसमारसति ॥] ख्लो मुरज इव मर्दल इव भवति । गित्याह । अकुलीनो जारजातः । द्विमुखो द्विजिह्वः । तावन्मधुरो भोजनं मुखे यावत् । यावदेव भोजनादि दीयते तावन्मधुरो हृष्टः । जीणे भोजने विरसमारसति कर्णकटुभाषी । मर्दलोऽप्येवंविधः । अकुलीनोऽ-स्पृष्टभूमिः । यतोऽके धृत्वा वाद्यते । “मृदङ्गो मुरजो भेदास्त्वळ्यालिङ्गयोर्ध्वगास्त्रयः " इत्यमरसिंहः ॥ ५२ ॥
53) [ निर्धों गुणरहितः स्थान विमुक्तश्च लोभ-(लोह-) संभूतः । विध्यति जनस्य हृदयं पिशुनो बाण इव लगन् ॥] पिशुनो बाण इव लगन् जनस्य हृदयं विध्यति । उभयोः श्लेषमाह । निर्धर्मः पापी। पक्ष धर्मशब्देन धनुर्लभ्यते । धनुर्मुक्तः । तथा गुणाः सत्त्वसौजन्यादयस्तै रहितः । 'त्यक्तप्रत्यञ्चश्च । ठाणविमुक्को स्थान विमुक्तः । पक्षे स्थानानि आलीढवैशाखप्रत्यालीढादीनि तैर्विमुक्तश्च । लोभसंभूतः । लोहसंभूतश्चति ॥ ५३ ॥
54) [ जन्मन्यपि यन्न भूतं न खलु भविष्यति यच्च जन्मलक्षेऽपि । तज्जल्पन्ति तथैव पिशुना यथा भवति सदृक्षम् ॥ ] पिशुना जन्मन्यपि यन्न भूतं, न खलु भविष्य ति यज्जन्मलक्षेऽपि, तज्जल्पन्ति तथैव यथा भवति सदृक्षम् । अयमत्र भावः । यत् कदाचित् कचिन्न' संघटते, तद् घटमानमिव साक्षाउजल्पन्ति ।। ५४ ।।
1
क्वचिन्न भवति न संघटते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org