________________
-637-1] वसंतवज्जा
२६५ 624*3) कस्त करण किसोयरि वरणयरं वहसि उत्तमंगेणं । कण्णेण कण्णवहणं वाणरसंखं च हत्थेण ॥ ३॥
पसंतवज्जा। 637*1) लंकालरण रत्तंबरवेसिण दिनपुप्फयाणेण ।
दहवयणेणेव कयं सीयाहरणं पलासेण ॥१॥
कुलबालिका कस्मात् न वासिता। वासो न वितेरे । किविशिष्टा कुलबालिका । प्रसूता । पुनः किंविशिष्टा । पुत्रसहिता । पुनः किं विशिष्टा । सुरतकार्यतत्परा । पुनः किंविशिष्टा । ईदृशगुणसंपूर्णा । अयं भावः । पुत्रस्य कृपया (?)॥ ६२४*२ ॥
___624*3) कस्य कृते कृशोदरि वरनगरं ( वर्णकरं ) वहसि उत्तमाङ्गेन । कर्णेन कर्णवहनं वानरसंख्यं च हस्तेन ॥ ] हे कृशोदरि, कस्य कृते उत्तमानेन वरनगरं वहसि । कोऽप्युत्तमाङ्गेन वरनगरं वहति ? अपि तु न । अत्र भावः । हे कृशोदरि कस्य कृते वर्णकर वहसि । वर्णकर चित्रवल्लरीमण्डनम् । कर्णेन कर्णवहनं ( ? ) कस्य कृते वहसि । चान्यत् । वानरसंख्यं (?) कस्य कृते वहसि । पत्युः कृते । अयं भावः ।। ६२४*३॥
637*1) [ लङ्कालयेन रक्ताम्बरवेषिणा दत्तपुष्पयानेन । दशवदनेनेत्र कृतं शीताहरणं (सीताहरणं) पलाशेन ।। ] पलाशेन वृक्षेग शीतस्य आ समन्ताद्भावेन हरणं कृतम्। किं विशिष्टेन पलाशेन । अलंकारकेग । अक्षरच्युतकलक्षणेन । अलम् अत्यर्थं कालकेन कालकिसलयेन । पुनः किं विशिष्टेन । रत्तंबरवेसिगा । रकतमम्बरम् आकाशं रकताम्बरं, तद्वेषो यस्यास्तीति रक्ताम्बरवेषी । तेन रक्ताम्बरवेषिणा । पुनः किंविशिष्टेन । दिन्नपुष्फयाणेण । दत्तं पुष्पस्य यानं येन स दत्तपुष्पयानः । तेन । पलाशेन केन इव । दशवदनेनेव । यथा दशवदनेन सीताहरणं कृतम् । किंविशिष्टेन दशवदनेन । लङ्कालयेन । लङ्कायाम् आलयं यस्यासौ लङ्कालयस्तेन लङ्कालयेन । पुनः किं विशिष्टेन । रत्तंबरवेसिगा। रक्तं च तदम्बरं च रक्ताम्बरम् । रक्ताम्बरस्य वेषो यस्यासौ रक्ताम्बरवेषी, तेन रक्ताम्बरवेषिगा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org