________________
२६४
वज्जालग्ग
[605*1
कण्हवजा। 605*1) उम्बूढभुवणभारो वि केसवो थणहरेण राहाए ।
मालइदल व्व कलिओ लहुइज्जइ को न पेम्मेण ॥ १॥ 605*2) तह रुणं तीइ तडहियाइ राहाइ कण्हविरहम्मि । जह से कज्जलम इलं अज्ज वि जउणाजलं वहइ ॥२॥
हियालीवज्जा।। 624*1) छीए जीव न भणियं परियणमज्झम्मि पोढमहिलाए।
छोडेइ चिहुरभारं पुण बद्धं केण कज्जेण ॥१॥ 624*2) कुलबालिया पसूया पुत्तवई सुरयकज्जतत्तिल्ला।
एरिसगुणसंपन्ना भण कीस न वासिया पइणा ॥२॥
605*1) [ उद्यूढभुवनभारोऽपि केशवः स्तनभरेण राधायाः । मालतीदलमिव कलितो लघूक्रियते को न प्रेम्णा ।। ] केशवो नारायणो राधया स्तनभरेण मालतीदल इव कलितः । उच्चैरुत्पाटितः ( ? ) । किंविशिष्टो हरिः । उदूढमुवनभारोऽपि । कोऽर्थः । उदूढः त्रिभुवनस्य भारो येन स तथा । योऽसौ उदूढभुवनभारः स राधया स्तनभरेण मालतीदल इव कथं कलितः । तत्र कारणमाह कविः । प्रेम्णा स्नेहेन को न लघुक्रियते । सर्वोऽपि जनो मोहेन लघुर्भवति ॥ ६०५.१॥
605*2) [ तथा रुदितं तया तटस्थितया राधया कृष्णविरहे । यथास्याः कज्जलम लिनम् अद्यापि यमुनाजलं वहति ॥ ] राधया तटस्थितया यमुनातीरस्थितया कृष्णविरहे तथा तथा रुदितं, यथा सा यमुना अद्यापि कज्जलमलिनं जलं वहति ॥ ६०५*२ ॥
624*1) [ क्षुते जीव न भणितं परिजनमध्ये प्रौढमहिलया । मोचयति चिकुरभार पुनर्बद्धं केन कार्येण ॥ ] प्रौढमहिलया छिक्यत् (क्षुवत् ) परिजनमध्ये जीव इति न भणितम् । लज्जावशात् । चिकुरभार छोटयति केन कारणेन पुनः बद्धम् । भावोऽस्याः । यावन्ति मस्तके रोमाणि वर्तन्ते तावन्ति वर्षाणि जीव ॥ ६२४*१॥
624*2) [ कुलबालिका प्रसूता पुत्रवती सुरतकार्यतत्परा । ईदृशगुणसंपन्ना भण कस्मान्न वासिता पत्या ॥ ] भग कथय । पत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org