________________
२४८
वज्जालग्गं
[389*2
389•2) तुह सुरयपवरतरुपल्लवग्गकवलाण लद्धमाहप्पो।
मह मणकरहो मुद्धे दक्खाकवलं पि परिहरइ ॥ २॥ 389*3) विरहग्गिजलणजालाकरालियं कुवलयच्छि मह अंग।
तुह रमणमहाणइपाणिएण मुद्धे पविज्झाहि ॥ ३ ॥ 389*4) रेहइ पियपडिभण'पसारियं सुरयमंदिरहारे।
हेलाहल्लावियथोरथणहरं भुयलयाजुयलं ॥४॥ 389*5) ता जाइ ता नियत्तइ ठाणं गंतूण झत्ति वाहुडइ ।
पियविरहो घोडा विग्गहो व्व हियए न संठाइ॥५॥
389*2) [ तव सुरतप्रवरतरुपल्लवाग्रकवलानां लब्धमाहात्म्यः । ममा मनःकरभो मुग्धे द्राक्षाकवलमपि परिहरति ॥] हे मुग्धे मम मनःकरभो. द्राक्षाकवलमपि परिहरति । किंलक्षणो मन:करभः। तव सुरतप्रवरतरुपल्लवाग्रकरलानां लब्धमाहात्म्यो लब्धास्वादः । अतः कारणात् ॥ ३८९*२॥
389*3) [ विरहाग्निज्वलनज्वालाकरालितं कुवलयाक्षि ममाङ्गम् । तव रमणमहानदीपानीयेन मुग्धे विध्यापय ।। ] हे कुवलयाक्षि कुवलयनेत्रे, ममाङ्गं विरहाग्निज्वलनज्वालाकररालितं वर्तते । ततस्तव रमणनदीपानीयेन हे मुग्धे प्रविध्याहि उपशमय प्रविध्यापय ।। ३८९ ३ ॥
389*4) [ राजते प्रियप्रतिरोधनप्रसारितं सुरतमन्दिरद्वारे। हेलाचालितस्थूलस्तनभरं भुजलतायुगलम् ।। ] हे सुन्दरि तव भुजलतायुगलं. राजते किंविशिष्टं भुजलतायुगलम् । हेलाहल्लावियथोरथणहरं । हेलया हल्लापितः स्पृष्टः स्थूलस्तनभरो येन । पुनः किंविशिष्टम् । सुरतमन्दिरद्वारे प्रियप्रतिरुन्धनप्रसारितम्।। ३८९*४ ।।
389*5) [ तावद्याति तावन्निवर्तते स्थानं गत्वा झटिति व्याघुटति । प्रियविरहोऽश्वो विग्रह इव हृदये न संतिष्ठति ।।] प्रियविरहो हृदये न संतिष्ठति । प्रियस्य विरहः प्रियविरहः । अथ. प्रियाया विरहः प्रियाविरहः। हृदये न संतिष्ठति । क इव । घोडा विग्रह इव । अश्वो विग्रह इव । यथा अश्वो विग्रहः स्थाने न संतिष्ठति । तावद्या ति तावन्निवर्तयति । स्थानं
1 Better to read परिरभण ( = आलिङ्गन ) instead of पडिभण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org