________________
२४२ वज्जालग्गं
[ 318*3-- 318*3) अंतोकढंत मयणग्गितावियं वहइ कणयकतिल्लं ।
बालाए लावण्णं उफिणियं थणभरमिसेण ॥३॥ 318*4) सहस त्ति जं न भजइ थणहरभारेण मज्झतणुयंगी।
भंजणभएण विहिणा दिन्नो रोमावलीखभो ॥४॥ 318*5) बालाकवोललावण्णणिजिओ चंद खिज्जसे कीस ।
अह माणो न हु कीरउ बहुरयणविभूसिया पुहवी ॥५॥ 318*6) बाला लावण्णणिही नवल्लवल्लि ब्व माउलिंगस्स।
चिंचि व्व दूरपक्का करेइ लालाउयं हिययं ॥ ६॥
कंचुको नववध्वाः । परिधातुं न समाप्यते समाप्तिं न याति । क सति । ( समारोहति तारुण्ये । ) यावत् सुरतावसाने स्वस्था सती मेखलां कचक च परिदधाति, तावत् पतिना उत्तार्यते इति भावः ॥३१८*२ ॥
___318*3) [अन्त:कथत मदनाग्नितापितं वहति कनककान्तियुक्तम् । बालाया लावण्यं बहिर्निर्गतं, स्तनभर मिषेण ॥ ] बालाए प्रौढयुक्त्या लावण्यं स्तनभरमिषेण स्तनभरच्छद्मना अत्र उफिणियं उत्कलितं बाह्ये निर्गतम् । कीदृशं लावण्यम् । अन्त:कथत् । पुनः कीदृशम् । मदनाग्निना तापितं सत् कनककान्तितुल्यकान्ति । वहति ( स्तनभर मिषेण )। अनेन हेतुन। स्तने कनककलशोपमा योग्या ।। ३१८*३ ।।
318*4) [ सहसेति यन्न भज्यते स्तनभरभारेण मध्यतनुकाङ्गी । भङ्गभयेन विधिना दत्तो रोमावलीस्तम्भो ।। ] सहसेति यन्न भज्यते न त्रुट्यति स्तनभरभारेण मध्यतनुकाङ्गी, तद् विधिना त्रुटनभयेन रक्षणार्थं रोमावलीस्तम्भः प्रदत्तः ।। ३१८* ४ ॥ . 318*5) [ बालाकपोललावण्य निर्जितश्चन्द्र खिधसे कस्मात् । अथ मानो न खलु क्रियतां बहुरत्नविभूषिता पृथ्वी ।। ] हे चन्द्र कस्मात् खिद्यसे । किंविशिष्टश्चन्द्रः। बालाकपोललावण्य निर्जितः। अथवा मानः कापि न क्रियते (? क्रियताम् )। यतः पृथ्वी बहुरत्नविभूषिता वर्तते ।। ३१८*५॥
3186) [बाला लावण्यनिधिर्नवीनवल्लीव मातुलिङ्गस्य । चिंचेव दूरपक्का करोति लालाकुलं हृदयम् ।। ] बाला लावण्यनिधिर्नवीनमातुलिङ्गस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org