________________
२१०
पज्जालग्गं
[776 ९३.१
776) जोइक्खो गिलइ तमं तं चिय उग्गिलइ कज्जलमिसेणं ।।
अहवा सुद्धसहावा हियए कलुसं न धारेति' ॥२॥ 777) निययालपसु मलिणा कुणंति मलिणत्तणं जइच्छाए ।
गुणणेहकंतिजुत्तय न जुज्जए तुज्झ जोइक्ख ॥३॥ 778) नियगुणणेहखयंकर मलिणं निययालयं कुर्णतस्स।
जोइक्ख तुज्झ छाया परिचत्ता तेण सुयणेहि ॥ ४ ॥
संपूर्णः, आलोकवान् , लोकलोचनानन्दनः, नाशिततमओघप्रसरः, एवंविधः किं सुजनः, नहि नहि ज्योतिष्कः । ज्योतिर्विद्यते यस्मिन्निति. ज्योतिष्को दीपः। सुजनोऽप्येवंविधो भवति । सगुणः, प्रेमसंपूर्णः, आलोकवान् , लोकलोचनानन्दनः, नाशिततमओघप्रसरः ।। ७७५ ॥
776) [ज्योतिष्को गिलति तमस्तदेवोद्गिरति कज्जलमिषेण । अथवा शुद्धसभावा हृदये कलुषं न धारयन्ति ॥ ] ज्योतिष्को गिलति तमस्तदेवोद्गिरति कज्जलमिषात् । अथवा शुद्धस्वभावा हृदि कलुषं न धारयन्ति ।। ७७६ ॥
___777) [ निजालयेषु मलिनाः कुर्वन्ति मलिनत्वं यथेच्छम् । गुणस्नेहकान्तियुक्त न युज्यते तव ज्योतिष्क ॥ ] मलिना निजालयेषु मलिनत्वं यदृच्छया कुर्वते । न तु खच्छचित्ताः । अत एव ज्योतिष्क उद्योतकर हे दीप गुणस्नेहकान्तियुक्त, तव निजालये मलिनत्वं कर्तुं न युज्यते ।। ७७७ ।।
778) [ निजगुणस्नेहक्षयंकर मलिनं निजालयं कुर्वतः । ज्योतिष्क तव च्छाया परित्यक्ता तेन सुजनैः ।। ] निजगुणस्नेहक्षयंकर ज्योतिष्क निजालयं निजस्थानं मलिनं कुर्वतस्तव च्छाया तेन हेतुना सुजनैः परित्यक्ता। विद्वांसः किल दीपच्छायां न गृह्णन्ति । दीपच्छाया गजच्छाया' खरच्छाया तथैव चेति ।। ७७८ ।। 1 G, I धारंति
2 I लोइल्लो आलोकयुक्त उद्योतयुक्त इति यावत् 3G निजच्छाया, 4 G, I खगच्छाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org