________________
-721 : ८२.४ ] .
हंसमाणसवज्जा
८२. हंसमाणसवजा ( हंसमानसपद्धतिः ) 718) छडिजाइ हंस सरं कत्तो वासो परम्मुहे दिव्वे ।
जावन ठवेहचलणे कूडबओ मत्थए एहि ॥१॥ 719) पढम चिय जे विगया घणागमे साहु ताण हंसाणं ।
जेहि न दिलु उच्चासणट्रियं खलबयकुडुंबं ॥२॥ 720) इयरविहंगमपयपंतिचित्तला जत्थ पुलिणपेरंता ।
तत्थ सरे न हु जुत्तं वसियवं रायहंसाणं ॥३॥ 721) विविहविहंगमणिवहेण मंडियं पेच्छिऊण कमलवणं ।
मुकं माणभरिएहि माणसं रायहंसेहिं ॥ ४॥
718) [ त्यज्यते हंस सरः कुतो वासः पराङ्मुखे दैवे । यावन्न स्थापयति चरणौ कूटबको मस्तक इदानीम् ।। ] हे हंस सरस्त्यज्यते । यतः कुतो वासः पराङ्मुखे दैवे । यावन्न स्थापयति चरणौ मस्तके कटबक इदानीम्। अयं भावः । कश्चिन्मनस्वी क्वापि मूर्खप्रधाने ग्रामे वसन् केनचिदेवमुच्यते ॥ ७१८ ॥
719) [ प्रथममेव ये विगता धनागमे साधु तेषां हंसानाम् । यैर्न दृष्टमुच्चासन स्थितं खलबककुटुम्बम् ।।] प्रथममेव ये गता मानसं घनागमे, साधु तेषां हंसानाम् । किमित्येवमुच्यते। यैर्न दृष्टं खलबककुटुम्बकम् -उच्चासनस्थितम् । वरमन्यत्र गमनं विदुषां', न तु मूर्खस्य मूखैः क्रियमाणः सत्कारो दृष्टः ॥ ७१९ ।।।
720) [ इतरविहङ्गमपदपङ्क्तिचित्रिता यत्र पुलिनपर्यन्ताः। तत्र सरसि न खलु युक्तं वसितव्यं राजहंसानाम् ।।] इतरविहङ्गमपदपङ्क्तिचित्रिता यत्र पुलिनपर्यन्ताः, तस्मिन्नेवं विधे सरसि न खलु युक्तं राजहंसानामुषितुम् ।। ७२० ।।
721) [ विविधविहङ्गमनिवहेन मण्डितं प्रेक्ष्य कमलवनम् । मुक्तं मानभृतैर्मानसं राजहंसैः ।। ] राजहंसैर्मानसं सरो मुक्तम् । किविशिष्टैः । मानभतर्मनस्विभिः । किं कृत्वा । प्रेक्ष्य । किंविशिष्टम् । विविधविहङ्गमनिवहम ण्डितं कमलवनम् ।। ७२१ ॥
1G, I विदुषः 2 I उषितम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org