________________
१५४
वज्जालग्गं
566 ) न गणेइ रूववंतं न कुलीणं नेय रूपसंपन्नं । वेसा वाणरिसरिसा जत्थ फलं तत्थ संकमइ ॥ ७ ॥ 567) अन्नन्नरायरसियं आसन्नपओहरं गुणविहूणं । ठ सहायक साहिययं सुरधणु व ॥ ८ ॥ 568 ) कवडेण रमंति जणं पियं पयंपंति अत्थ लोहेण । ताण नमो वेसाणं अप्पा वि न वल्लहो जाण ॥ ९ ॥ 569 ) कुललंछणं अकित्ती अत्थस्स खओ असीलसंवासो । गंतुं चिय वेसहरं न जुज्जए पंडियजणस्स ॥ १० ॥
[566: ५९.७
महनीया षिङ्गसेवनीया। पक्षे, भुजंगैर्महनीया । लोभ एव वित्तं, लोभद्रव्यस्य स्थानम् । पक्षे, लोह' मेव वित्तं, तस्य स्थानमेव ॥ ५६५ ॥
566) [ न गणयति रूपवन्तं न कुलीनं नैव रूपसंपन्नम् । वेश्या वानरीसदृशी यत्र फलं तत्र संक्रामति ॥ वेश्या वानरीसदृक्षा यत्रैव फलं तत्रैव संक्रामति । कथम् । न गणयति रूपवन्तम्, अरूपं वा, न कुलीनं नैव रूपसंपन्नम् || ५६६ ।।
567 ) [ अन्यान्यरागरसिकमा सन्नपयोधरं गुणविहीनम् । स्तब्धं स्वभाववक्रं वेश्याहृदयं सुरधनुरिव ॥ ] वेश्याहृदयं सुरधनुरिवेन्द्रचापमित्र । अधुना श्लेषः । किंविशिष्टम् । अन्यस्मिन्नन्यस्मिन्योऽसौ रागस्तेन रसितं, नानाजनरा गि । पक्षे, अन्योऽन्यो योऽसौ रागः पंचवर्णत्वात् । अन्योन्यरागरक्षितम् । तथा आसन्नौ पयोधरौ स्तनौ यत्र । पक्षे, आसन्नास्तन्निकटवर्तिनः पयोधरा मेघा यत्र तत् । गुणविहीनम् । गुणा ऋजुत्वादयः । पक्षे शिञ्जिनीरहितम् । स्तब्धमुभयमपि । स्वभाववक्रमनृजु ।। ५६७ ॥
568 ) [ कपटेन रमयन्ति जनं प्रियं प्रजल्पन्त्यर्थलोभेन । ताभ्यो नमो वेश्याभ्य आत्मापि न वल्लभो यासाम् || ] ताभ्यो वेश्याभ्यो नमो यासामात्मापि न वल्लभः । कोऽर्थः । आत्मानं द्रव्यलोभेन कुष्ठिनेऽप्यर्पयन्ति । कपटेन रमन्ते जनम् । अर्थलोमेन प्रियं प्रजल्पन्ति ॥ ५६८ ॥
569) [ कुललाञ्छनमकीर्तिरर्थस्य क्षयोऽशीलसंत्रासः । गन्तुमेव वेश्यागृहं न युज्यते पण्डितजनस्य ॥ ] पण्डितजनस्य विद्वल्लोकस्य वेश्यागृहं
1 G, I लोभ एव वित्तं तस्य स्थानमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org