________________
वज्जालग्गं
[560 ५९.१५१. वेसावज्जा [वेश्यापद्धतिः] 550) अहिणि व्व कुडिलगमणा रोरहरे दीवय व्व निण्णेहा।
सुकइ व्व अत्थलुद्धा वेसं दळूण वंदामि ॥ १॥ वण्णड्डा मुहरसिया नेहविहूणा वि लग्गए कंठं ।
पच्छा करइ वियारं बलहट्टयसारिसा वेसा ॥२॥ 552) सहइ सलोहा घणघायताडणं तह य बाणसंबंधं ।
कुंठि व्व पउरकुडिला वेसा मुट्ठीह संवहइ ।।३॥
560) [ अहिरिव कुटिलगमना दरिद्रगृहे दीपक इव निःस्नेहा । सुकविरिवार्थलुब्धा वेश्यां दृष्ट्वा वन्दे ।। ] वेश्यां दृष्ट्वा वन्दे नमस्करोमि दूरत एव । यतः कीदृशी सा । अहिनी सर्पिणी तद्वत् कुटिलगमना वक्रगमनशीला वक्रगतिः । तथा रोरगृहे दरिद्रालये दीपक इव नि:स्नेहा । दरिद्रगृहदीपः प्रायेण तैलरहितो भवति । तद्वत् नि:स्नेहा प्रेमवर्जिता । तथा अर्थलुब्धा. सुकविरिव । यथा सुकविरथोंऽभिधेयस्तत्र लुब्धः' ॥ ५६० ॥
561) [ वर्णाढ्या मुखरसिका स्नेह विहीनापि लगति कण्ठम् ।। पश्चात् करोति विकारं चणकरोटिकासदृक्षा वेश्या॥] वेश्या बलह टुयसारिसा चणकरोटिकासदृक्षा । उभयोः श्लेषमाह । वर्णाढ्या पीतच्छवित्वात् , मुहरसिया मुखे रसिका, “आगच्छ प्राणनाथ मां दासी किमिति दृशापि न संभावयसि " इति । पक्षे मुखर सिका, भक्ष्यमाणा स्वादुर्भवति । स्नेह विहीनाफि लगति कण्ठम् । कृत्रिमप्रेमप्रकटना कण्ठे लगति । चणकपूपलिकाफि. स्नेह विहीना तैलादिरहिता कण्ठे तालुनि लगति, अतिरूक्षत्वात्तस्याः । पश्चात् करोति विकारं, निर्द्रव्यं पुरुषं कृत्वा विकारं कुर्वन्ति वेश्याः, निष्कासयन्तीत्यर्थः । रोटिकापक्षे पश्चाद्विकारम् उदराध्मानाजीर्णातिसारादिकं. करोति ॥ ५६१ ॥
___562) [ सहते सलोभा ( सलोहा ) घनघातताडनं तथा च बाणसंबन्धम् । संदं शिकेव प्रचुरकुटिला वेश्या मुष्टया संवहति ।। ] वेश्या
1 G, I add : तद्वदियमपि अर्थे द्रव्ये लुब्धा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org