________________
११४
वज्जालग्गं
[422: ४४.१४४. ओलुग्गावियावज्जा [अवरुग्णापद्धतिः] 422) तुह गोत्तायण्णणवियडरमणपज्झरियरसजलेणं व।
रइमंदिरम्मि बाला अब्भुक्खंती परिब्भमइ ॥ १ ॥ 423) तुह संगमदोहलिणीइ तीइ सोहग्गविंभियासार।।
नवसियसयाइ देतीइ सुहय देवा वि न हु पत्ता ॥२॥ 424) तुह अन्नेसणकजम्मि सुहय सा हरिसवियसियकवोला।
जं जत्थ नत्थि तं तत्थ मग्गमाणी चिरं भमिया ॥३॥ 425) अगणियसेसजुवाणा बालय वोलीणलोयमजाया।
अह सा भमइ दिसामुहपसारियच्छी तुह करण ॥४॥
422) [ तव गोत्राकर्णन विकटरमणप्रसुतरसजलेनेव । रतिमन्दिरे बालाभ्युक्षन्ती परिभ्रमति ॥] हे नायक त्वद्गोत्राकर्णन विकटकटिस्थलप्रस्नुतरसजलेनेव रतिमन्दिरे बालाभ्युक्षणशीला परिभ्रमति । अयं भावः । तव नामाकर्णनेनापि गृहमध्ये द्रवीभूत चित्ता परिभ्रमन्त्यपि द्रवति ।।४२२।।
423) [ तत्र सङ्गमदोहदवत्या तया सौभाग्य विजम्भिताशया। उपयाचितकशतानि ददत्या सुभग देवा अपि न प्राप्ताः ।। ] तव सङ्गमे दोहदवत्या तया सौभाग्यविजृम्भिताशया, नवसितशतानि ददत्या सुभग देव्यपि न प्राप्ता । यत् पूणे मनोरथे देवादिभ्यो दीयते तन्नवसितम् ॥४२३॥
___424) [ तवान्वेषणकार्ये सुभग सा हर्षविकसितकपोला । यद्यत्र नास्ति तत्तत्र मार्गयन्ती चिरं भ्रान्ता ।।] तवान्वेषणकार्ये सरभस विकसितकपोला यद्यत्र नास्ति तत् तत्र मार्गयन्ती चिरं भ्रमिता हे सुभग ।।४२४॥
425) [अगणितशेषयुव जना बालकातिक्रान्तलोकमर्यादा । अथ. सा भ्रमति दिङ्मुवप्रसारिताक्षी तव कृते ।। ] हे बालक असौ सा मत्सखी अगणितशेषयुवजनातिक्रान्तलोकमर्यादा त्वत्कृते दिङ्मुखप्रसारिताक्षी भ्राम्यति । समस्तानपि यूनस्तृणवत् त्यक्त्वा सुभगमौलिचडामाणिं त्वामेवान्वेषयन्ती परिभ्रमति ॥ ४२५ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org