________________
-406 : ४२.४ ] . पियाणुरायवजा
४२. पियाणुरायवज्जा [प्रियानुरागपद्धतिः] 403) मुहराओ च्चिय पयडइ जो जस्स पिओ किमेत्थ भणिएण।.
साहेइ अंगणं चिय घरस्स अभंतरे लच्छि ॥१॥ 404) डझंति कढंति समूससंति ओ माइ सिमिसिमायति ।
जीवंति जीवसेसा जे रमिया पोढमहिलाहिं ॥२॥ 405) कंपति वलंति समूससंति ओ माइ सिमिसिमायति ।
अंगाइ तस्स पुरओ न याणिमो कह धरिज्जंति ॥३॥ 406) नीससिउक्कंपियपुलइएहि जाणंति नच्चिउं धन्ना।
__ अम्हारिसीण दिहे पियम्मि अप्पा वि वीसरइ ॥४॥ mmmmmmmmmmmmmm
403) [ मुखराग एव प्रकटयति यो यस्य प्रियः किमत्र भणितेन । कथयत्यङ्गणमेव गृहस्याभ्यन्तरे लक्ष्मीम् ।। ] मुखराग एव प्रकटयति यो यस्य प्रियः किमत्र भणितेन । अमुमर्थमर्थान्तरेण साधयति । अङ्गणमेव: कर्तृ कथयति गृहस्याभ्यन्तरस्थितां लक्ष्मीम् ॥ ४०३ ।।
404) [दह्यन्ते क्वथ्यन्ते समुच्छ्वसन्त्यही सिमिसिमायन्ते ।। जीवन्ति जीवशेषा ये रमिताः प्रौढमहिलाभिः ।। ] ' ओ ' इति अहो । माइ हे मातः । ये प्रौढ महिलाभी रमितास्ते जीवशेषा जीवन्ति , जीव एव केवलं तेषु तिष्ठति । कथं ज्ञायत इत्याह । दह्यन्ते, क्वथ्यन्ते। समुच्छ्वसन्ति, सिमिसिमायन्ते ।। ४०४ ॥
405) [ कम्पन्ते वलन्ते समुच्छ्वसन्त्यहो मातः सिमिसिमायन्ते । अङ्गानि तस्य पुरतो न जानीमः कथं धार्यन्ते ॥ ] हे मातस्तस्य पुरतोऽङ्गानि कथं धार्यन्त इति वयं न जानीमः | यतोऽङ्गानि तस्मिन् प्रेयसि दृष्टे कम्पन्ते, बलन्ति, समुच्छ्वसन्ति, सिमिसिमायन्ते । कोऽर्थः । प्रियं दृष्ट्वा मदङ्गानि इमामवस्थामालम्बन्त इति ॥ ४०५ ॥
406) [ निःश्वसितोत्कम्पितपुलकितैर्जानन्ति नर्तितुं धन्याः । अस्मादृशीनां दृष्टे प्रिय आत्मापि विस्मयते ॥ ] धन्याः स्त्रियो निःश्वासोकम्पितपुलकितैर्तितुं जानन्ति । अस्मादृशीनां पुनदृष्टे प्रेयस्यात्मापि विस्मयते । कोऽर्थः । प्रियं दृष्ट्वा धन्याः स्त्रियो निःश्वसितोत्कम्पित- .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org