________________
१०४
वजालग्गं [385 : ३९.१५- . 385) मयणाणिलसंधुक्खियणेहिंधणदुसहदूरपज्जलिओ।
डहई सहि पियविरहो जलणो जलणो च्चिय वराओ ॥१२॥ 386) थोरंसुसलिलसित्तो हियए पजलइ पियविओयम्मि।
विरहो हले हयासो अउव्वजलणो कओ विहिणा ॥ १३ ॥ 387) विसहरविसग्गिसंसग्गदूसिओ डहइ चंदणो डहउ ।
पियविरहे महचोज्जं अमयमओ जं ससी डहइ ॥ १४॥ mmmmmmmmmm
385) [ मदनानिलसंधुक्षितस्नेहेन्धनदुःसहदूरप्रज्वलितः। दहति सखि प्रिय विरहो ज्वलनो ज्वलन एव वराकः ॥] हे सखि प्रिय विरहो दहति। किंविशिष्टः। मदनानिलसंधुक्षित'स्नेहेन्धनदुःसहो दूरमत्यर्थ प्रज्वलितः। अत एव ज्वलनो ज्वलन एव वराकः ।। ३८५ ।।
386) [ स्थूलाश्रुसलिलसिक्तो हृदये प्रज्वलति प्रियवियोगे। विरहो हले हताशोऽपूर्वज्वलनः कृतो विधिना ॥ ] हे हले सखि, विरहो हृदथे प्रज्वलति । कदा। प्रियवियोगे। किविशिष्टो विरहः। थोरंसुसलिलसित्तो दीर्घाक्षिजल( ? स्थूलाश्रुजल )सिक्तः। अत एवापूर्वी विधात्रा ज्वलनो विरचितः । यः किल ज्वलनः स जलसिक्तो विध्याति, अयं तु प्रत्युत जाज्वल्यते हृदये ॥ ३८६ ।।
337) [ विषधरविषाग्निसंसर्गदूषितो दहति चन्दनो दहतु । प्रियविरहे महाश्चर्यममृतमयो यच्छशी दहति ॥ ] हे सखि, विषधरविषाग्निसंसर्गदूषितश्चन्दनो दहति । दहतु । योऽग्नेरुत्पन्नः स दाहकत्वाद दहत्येव । तत्स्वभाववासितत्वात्तस्य। प्रियविरहे महचोज्जं महदाश्चर्यम् । चोज्जं आश्चर्यम् इति देशीयपदम् । 'चुज्जमच्छरिए' इति हैमदेशीयनाममालायां तृतीयकाण्डे ( ३. १४ ) । यदसावमृतमयश्चन्द्रो दहति । चन्द्रः सर्वदा शीतलो दुग्धाब्धेरुत्पन्नश्च । असावेव यद्दहति एतदाश्चर्यम् ।। ३८७ ।।
1 G, I मदनानलसंधुक्षितः 2G मम यदसावमृतमयश्चन्द्रो दहति (मम दहति = मां दहति)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org