SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ वज्जालग्गं [ 352 : ३७.३352) ए दइइ मह पसिज्जसु माणं मोत्तूण कुणसु पसिओसं । कयसेहराण सुम्मइ आलावो झत्ति गोसम्मि ॥३॥ 353) निद्दाभंगो आवंडुरत्तणं दोहरा य नीसासा। जायंति जस्स विरहे तेण समं केरिसो माणो॥४॥ 354) नइपूरसच्छहे जोव्वणम्मि दियहेसु निश्चपहिएसु। अणियत्तासु वि राईसु पुत्ति किं दड्रमाणेण ॥५॥ कश्चन युवा कांचनान्यां स्त्रियं गते दिवस उपभुज्य द्वितीयदिनरात्रौ कौमुद्याद्युत्सवे मानमवलम्ब्य स्थितां वामाक्षी मद्यपात्रपुष्पाद्युपभोगवस्त्वानीय तामनुनयन्निदमाह ।। ३५१ ।। ___352) [हे दयिते, मम प्रसीद मानं मुक्त्वा कुरु परितोषम् । कुक्कुटानां श्रूयत आलापो झटिति प्रभाते ।। ] 'ए' इति प्रार्थनायाम् । हे दयिते मह्यं प्रसीद, प्रसन्ना भव। मानं मुक्त्वा परितोषं कुरु । किमित्येवं याचसे, किं तव याति, एतावता किं भवदस्ति-इत्याह । कयसेहराणं कुक्कुटानाम् आलापः शब्दः, गोसे प्रभाते झटिति श्रूयते । प्रभातं भवतीत्यर्थः । अत एव मानं मुक्त्वात्मीयं कार्यं विधेहीति भर्तुरुक्तिः । गोसे प्रभाते इति देशीयं पदम् ।। ३५२ ।।। 353) [ निद्राभङ्ग आपाण्डुरत्वं दीर्घाश्च निःश्वासाः । जायन्ते यस्य विरहे तेन समं कीदृशो मानः ॥] तेन समं कीदृशो मानो यस्य. विरह एतावद्भवति । निद्राभङ्ग आपाण्डुरत्वं दीर्घाश्च निःश्वासा इति सखीशिक्षोक्तिर्नायिकां प्रति ॥ ३५३ ।। 354) [ नदीपूरसदृशे यौवने दिवसेषु नित्यपथिकेषु । अनिवृत्तास्वपि रात्रिषु पुत्रि किं दग्धमानेन ॥] हे पुत्रि, किम् अमुना दग्धमानेन । यतः । नदीपूरसदृक्षे यौवने, दिवसेषु नित्यपथिकेषु नित्यगत्वरेषु, अनिवृत्तासु रात्रिषु । ता एव रात्रयो न ह्यावर्तन्ते। यौवनं च नदीपूरवत् । यथा नदीपूरः समायाति, पुनर्मुहूर्तेन विनिवर्तते तद्वद्यौवनम् । दिवसाश्च त एव नायान्ति पूर्ववत् ॥ ३५४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy