SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ -289 ; ३१.५ ] 286) घोलंततारवण्णुजलेण वरतरुणिकण्णलग्गेण । लोयणजयलेण व पंचमेण भण को न संतविओ ॥ २ ॥ 287 ) अन्ने वि गामराया गिज्जेता देति सयलसोक्खाई । एयस्स पुणो हयपंचमस्स अन्नो चमक्कारो ॥ ३ ॥ 288 ) अपण कज्जेण वि दीहरच्छि थोरयरदीहरणरणया । पंचमसरपसरुग्गा र गब्भिणा पंति नीसासा ॥ ४ ॥ 289 ) तं वंचिओ सि पिययम तीए बाहोहसंवलिज्जता । न सुया नीसासखलंतमंथरा पंचमतरंगा ॥ ५ ॥ पंचमवज्जा 286) [ घूर्णमानतारवर्णोज्ज्वलेन वरतरुणीकर्णलग्नेन । लोचनयुग--- लेनेव पञ्चमेन भण को न संतापितः ॥ ] भण कथय पञ्चमेन पञ्चमरागेण को न सन्तापितः । किंविशिष्टेन । वरतरुणीकर्णलग्नेन । पुनः किं विशिष्टेन घूर्णमानास्तारा ये वर्णा अक्षराणि तैरुज्ज्वलेन । केनेव सन्तापितः । लोचनयुगले नेव । यथा लोचनयुगलेन सर्वोऽपि जनः सन्तापितः । तेनापि किंविशिष्टेन । वरतरुणीकर्णलग्नेन कर्णान्तविश्रान्तेन । घूर्णमाना तारा. कनीनिका, तस्या वर्णस्तेनोज्ज्वलं भासुरं तेन तथा ॥ २८६ ॥ " 287 ) [ अन्येऽपि ग्रामरागा गीयमाना ददति सकलसौख्यानि । एतस्य पुनर्हतपञ्चमस्यान्यश्चमत्कारः || २८७ || ] 288) [आत्मकार्येणापि दीर्घाक्षि महत्तरदीर्घरणरणकाः । पञ्चमस्वरप्रसरोद्गारगर्भिता आयन्ति निःश्वासाः ।। ] हे दीर्घाक्षि, आत्मकार्येणापि विस्तीर्णतर दीर्घ रणरणकाः, पञ्चमस्वरप्रसरोद्वारगर्भिता आयान्ति निःश्वासाः ॥ २८८ ॥ 289) [ त्वं वञ्चितोऽसि प्रियतम तस्या बाष्पौघसंवल्यमानाः । न श्रुता नि:श्वासस्खलन्मन्थराः पञ्चमतरङ्गाः ।। ] हे प्रियतम त्वं वञ्चितोऽसि,. यतः पञ्चमतरङ्गा न श्रुतास्त्वया । किंविशिष्टाः सन्तः । तस्या बाष्पौध-मिश्रीक्रियमाणाः । पुनः कीदृशाः । निःश्वास स्स्वलन्मन्थराः || २८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy