________________
—234 : २५.८ ]
मालईवज्जा
231) मडहुल्लियाइ किं तुह इमीइ किं वा दलेहि तलिणेहिं । आमोए महयर मालईइ जाणिहिसि माहपं ॥ ५ ॥ 232) तह वासियं वणं मालईइ कुसुमेहि निम्भरं सरए ।
जह इत्थ तत्थ कत्थ वि भमरा दुक्खेहि लक्खते ॥ ६ ॥ 233 ) का समसीसी सह मालईइ सेसाण कुसुमजाईणं ।
जस्स वि गंधविलित्ता भसला भसलेहि पिज्जेति ॥ ७ ॥ 234) कलियामिसेण उन्भेवि अंगुलिं मालईइ महमहियं ।
धरउ' जु धरणसत्थो मह एंतो महुयरजुवाणो ॥ ८ ॥
231) [ लघुतया किं तवैतस्याः किं पत्रैस्तलिनैः । आमोदे मधुकर मालत्या ज्ञास्यसि माहात्म्यम् ॥ ] हे मधुकर, एतस्या लघुतया किं तव, किंवा तलिणेहिं विरलैः स्तोकैर्वा दलैः पत्रैः । यतोऽस्या आमोदेन माहात्म्यं ज्ञास्यसि । अयं भावः । कश्चन युवा संपूर्ण कुचयुगलां मुग्धां वामाक्षीमवलोक्य तत्सख्योध्यते । अस्याः सुरतपाण्डित्येन गुणातिशयं - ज्ञास्यसि । एतां मुग्धां लघ्वीं मा ज्ञासीरिति ॥ २३१ ॥
232 ) [ तथा वासितं वनं मालत्या कुसुमैर्निर्भरं शरदि । यथा तत्र कुत्रापि भ्रमरा दुःखैर्लक्ष्यन्ते ।। ] तथा वासितं मालत्या कुसुमैर्वनंनिर्भरम् । क । शरदि । यथा अत्र तत्र कुत्रापि भ्रमरा दुःखैर्लक्ष्यन्ते
६३
॥ २३२ ॥
233 ) [ का समशीर्षिका सह मालत्या शेषाणां कुसुमजातीनाम् । यस्यापि गन्धवलिप्ता भ्रमरा भ्रमरैः पीयन्ते ।। ] शेषाणां कुसुमजातीनां मालत्या सह का प्रतिस्पर्धा । यस्या गन्धविलिप्ता भ्रमरा भ्रमरैरेव पीयन्ते । गन्धवासिता भ्रमराः कुसुमान्येतानीति भ्रान्त्या भ्रमरैरास्त्राद्यन्ते । गन्धाति-शयोक्तिरियम् ॥ २३३ ॥
234 ) [ कलिका मिषेणोवकृत्याङ्गुलिं मालत्या कथितम् । धरतु यो घरणसमर्थो माम् आयन् मधुकरयुवा ।। ] कलिकाव्याजेनाङ्गुलिमूर्वीकृत्य मालत्या महमहियं कथितमिति संज्ञा । किमित्याह । यो धारयितु समर्थः स धारयतु मधुकरयुवा मां प्रत्यागच्छन् । भावोऽयम् । काचन नारी
1 B, C, G
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org