SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ वज्जालग्गं 228) वसु मालइकलिए निम्भरमयरंदपरिमलुग्गारे। मुंचंतु छप्पया सेसकुसुमसेवाकिलेसस्स ॥२॥ 229) वियसंतु नाम गंधुद्धराउ सेसाउ कुसुमजाईओ।' इंदिदिरस्स रणरणयकारणं मालइ च्चेव ॥ ३ ॥ 230) मडहं मालइकलियं महुयर दळूण किं पराहुत्तो। एत्तो पसरइ भुवणंतराइ गंधो वियंभंतो॥४॥ 228) [ वर्धस्व मालतीकलिके निर्भरमकरन्दपरिमलोद्गारे । मुञ्चन्तु षट्पदाः शेषकुसुमसेवाक्लेशम् ॥ ] हे मालतीकलिके निर्भरमकरन्दपरिमलोद्गारे वर्धस्व । किमिति । पुष्पितायां त्वयि षट्पदा अशेषकुसुमसेवाक्लेशान्मुच्यन्ताम् । अशेषकुसुमानि परित्यज्य त्वत्कुसुमान्येवास्वादयन्तु, इत्युत्तरार्धः भावार्थः पुनरेषः । हे तामरसाक्षि निर्भरयौवनरमणीये भवन्ती सर्वावयवरूढप्रौढयौवनामालोक्य सर्वेऽपि युवानस्त्वामेवाहमह मिकया वाञ्छन्तु । भविष्यत्प्रौढतारुण्यारूढां नायिका प्रति सखीवाक्यमिति ।। २२८ ॥ 229) [ विकसन्तु नाम गन्धोद्धराः शेषाः कुसुमजातयः। इन्दिन्दिरस्य रणरणककारणं मालत्येव ।। ] विकसन्तु नाम गन्धोद्धराः शेषकुसुमजातयः । इन्दिन्दिरस्य भ्रमरस्य रणरणककारणं मालत्येव । अयमभिप्रायः । भवन्तु सर्वा अपि स्त्रियो, यूनः पुनः कस्यापि कर्णान्त विश्रान्तलोचना कुचयुगलपीड्यमानचिबुका, चम्पककलिकागौराङ्गी अवतीर्णतारुण्या युवती रणरणकहेतुर्भवति ॥ २२९ ।।। 230) [लची मालतीकलिकां मधुकर दृष्ट्वा किं पराङ्मुखः । इतः प्रसरति भुवनान्तराणि गन्धो विजृम्भमाणः॥] हे मधुकर लची मालतीकलिकामवलोक्य किं पराङ्मुखः संजातः । यत इतो मालत्या गन्धः प्रसरति। किं कुर्वाणः। भुवनान्तराणि विजृम्भमाणो व्याप्नुवन् । अयं भावः । कश्चिधुवानवतीर्णतारुण्यां नायिकामालोक्य तामकामयमानस्तत्सख्योच्यते। हे युवन् किं पराङ्मुखः संजातोऽसि । अस्याः स कोऽपि यौवनभरः समुल्लसिष्यति येन सकलनगरीनारीरप्यतिशयिष्यते ।। २३० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy