________________
४३
- 160 : १६.१० ]
सेवयवज्जा
157 ) वरिसिहिसि तुमं जलहर भरिहिसि भुवणंतराइ नीसेसं । तण्हासुसियसरीरे मुयम्मि वप्पीहयकुडुंबे ॥ ७ ॥ 158) देहि त्ति कह नु भण्णइ सुपुरिसववहारबाहिरं वयणं । से विज्जइ विणणं एस चिय पत्थणा लोए ॥ ८ ॥ 159) भुंजंति कसणडसणा अब्भंतरसंठिया गइंदस्स । जे उण विहरसहाया ते धवला बाहिर च्चेव ॥ ९ ॥ 160) तंबाउ तिनि सुपओहराउ चत्तारि पक्कलबइल्ला । निष्पन्ना रालयमंजरीउ सेवा सुहं कुणउ ॥ १० ॥
157) [ वर्षिष्यसि त्वं जलधर भरिष्यसि भुवनान्तराणि निःशेषम् तृष्णाशोषितशरीरे मृते चातककुटुम्बे ॥ ] वर्षियसि त्वं जलधर, पूरयिष्यसि भुवनान्तराणि निःशेषम् । क सति । तृष्णाशोषितशरीरे चातक-कुटुम्बे मृते सति ।। १५७ ।।
158) [ देहीति कथं नु भण्यते सुपुरुषव्यवहारबहिर्भूतं वचनम् । सेव्यते विनयेनैषैव प्रार्थना लोके ॥ ] कथं नु भण्यते देहीति सत्पुरुषव्यवहार बहिर्भूतं वचनम् । सेव्यते विनयेन एषैव प्रार्थना लोके लोकमध्ये - ।। १५८ ।।
159) [भुञ्जते कृष्णदशना अभ्यन्तर संस्थिता गजेन्द्रस्य । ये पुनर्विधुरसहायास्ते धवला बहिरेव || ] गजेन्द्रस्य मुखाभ्यन्तर स्थिताः कृष्ण-दशना भुञ्जते । ये पुनर्विधुरसहायास्ते धवला बहिरेव वर्तन्ते । अयमभावः । मलिनचित्ताः प्रभोरभ्यन्तर स्थिता विभवजातं भुञ्जते । ये पुन:: शुद्धस्वभावास्ते बहिः स्थिता एव केवलं क्लेशमनुभवन्ति ।। १५९ ।।
160) [ गावस्तिस्रः सुपयोधराश्चत्वारः समर्थवृषभाः । निष्पन्नाराहक मञ्जर्यः सेवा सुखं करोतु || ] सेवा सुखं करोतु । सेवया पर्याप्तम् । किमिति | गावस्तिस्रः सुपयोधराः, चत्वारश्च समर्था वृषभा:, निष्पन्ना रालकमञ्जर्य: । अयं भावः । धेनुवृषभरालकधान्येषु विद्यमानेषु सेवया ... लमित्यर्थः ।ः ।। १६० ।।
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org