SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् संज्ञानवर्म हृदये विनिवेश्य शोकशङ्कोः शरीरकमिदं परिरक्ष तावत् । संसारसागरनिमज्जनजातमेतज्जाड्यं विमुच्य मतिमर्पय पुत्रि बोधे ।। ४१ ॥ (वसन्ततिलका) ततः प्रविशति ज्ञानबोधः] ज्ञानबोध:- (ससम्भ्रमम्) क्वास्ते सा जीवितनिरपेक्षा वराकी । (परिक्रम्य पुरोऽवलोक्य व्रतरक्षितासिद्धशबरीभ्यां समन्विता सेयमित एवाभिवर्तते) व्रतरक्षिते ! साध्वनुष्ठितं, यदस्मदागमनावधि विधुरतां धारयन्तीयं सम्बोधिता । व्रतरक्षिता- (विलोक्य सगौरवं प्रणमति । देविप्रभां प्रति) वत्से ! प्रणम प्राक्स मुपार्जितपुण्यसञ्चयसमुपनीतान् गुरून् । इत ऊर्द्धवममीषां प्रसादेन समग्रदुःखापनोदस्तव भविष्यति । देविप्रभा- (कथं कथमप्युत्थाय तथा करोति वदति च) °करुणं काऊण परं देउ गुरु के पि मज्झ उवएसं । हयजीवियस्स चाओ हवइ जहा मज्झ सहस ति ॥ ४२ ॥ (आया) ज्ञानबोधः- वत्से ! अलमावेगेन । सकलकल्याणकल्पद्रुमस्त्वयि वर्तते परमगुरूणां प्रसादः । देविप्रभा- (स्वगतम्) ४१किं अदो उद्धं गुरुप्पसाएण ? ज्ञानबोधः- (तथावस्थां निरीक्ष्य) पुत्रि ! मा विषादं गमः । नावगन्तव्यं पुत्रापहारो मम जात इति, यतःपुत्रं हत्वा प्रयान्तं तव विकटमपाकृत्य नक्तंचरेशं, जग्राह व्योमचारी शृणु मतिविभवः पूर्वशिष्यो गुरूणाम् । तस्मादेतप्रसादव्यपगतविपदं वर्द्धमानं विदित्वा, स्वास्थां (स्वास्थ्यं) गच्छ त्वमस्माननुसर कतिचिद्वासरानिष्टसिद्ध्यै ।। ४३ ।। (स्रग्धरा) देविप्रभा- तथैव प्रतिपद्य अनुगमनं नाट्यति । निष्कान्ताः सर्वे] ॥ चक्रवर्त्तिजननो नाम द्वितीयोऽङ्कः ॥ छ ।। ४०. करुणां कृत्वा परं ददातु गुरुः कमपि ममोपदेशम् । हतजीवितस्य त्यागः भवति यथा मम सहसा इति ॥ ४१. देवि. (स्वगतम्) किमत ऊर्ध्वं गुरुप्रसादेन ? ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy