SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् ] सशिखः सभार्यगोऽपि च सिद्धपुत्रः सकूर्चको भणितः । नो भिक्षते शिल्पादिकर्म कृत्वा जीवति ॥ केऽपि भणति पश्चात् कृतपुत्रः सिद्धपुत्रको भणितः । सशिखो वाऽशिखो वा सभार्यगोवाऽभार्यो वा ॥ 1 [ परिशिष्टम्-३ सभार्यकोऽ भार्यको वा नियमा शुक्लाम्बरधरः क्षुरमुण्ड: 1 सशिखोऽशिखो वा नियमेना दण्डकोऽपात्रकश्च सिद्धपुत्रः ॥ श्री क्षेमंकरगणीकृते (वि.सं. १४६६ ) षट्पुरुषचरित्रे गाथा ३३३ - ३३४ पत्र - ९ अत्रावसरे देहधुतिद्योतिताम्बरः शोभमान सर्वाङगश्वेतांबर: परमब्रह्मचारी सम्यक्त्वमूलद्वादशव्रतधारी आकाशगामी अवधिज्ञानी स्वपरसंमयपारीणः धर्मधुरधुरीणः श्री सर्वज्ञशासनप्रभावकः सिद्धपुत्रः श्रावकः रत्नत्रयोपलक्षण सुवर्णमय सूत्रत्रयधारको गगनमार्गेण तत्र राजसभायामयासीत् Jain Education International पत्र - १० भो धर्मशील ! को भवान् ! कुतः समायातः ! क्व गन्ता ! कस्य शिष्यश्चेति ! सप्राह हे राजन् प्रथमार्हत्तीर्थे भरतेश्वरचक्रवर्ती साधर्मिकभक्त्याऽणुव्रतधारिणां ब्रह्मचारिणां पुरा काशिपुचिन्तामकरोत् ततस्तेषामाधिक्यं दृष्टवा रत्नत्रयपरीक्षापूर्वकं तदुपलक्षणं कनकरत्नमयं यज्ञोपवीतमदात् ते च ततः सर्वेषां महनीया अभवन् ततःश्री भरतान्वयेऽष्टभिर्नृपैस्तथैव परीक्षापूर्वं स्वर्णमयं ततः परमपरैः रुप्यमयं यावत् श्रीअजितजिनपिता ततः परं सूत्रमयं अभूत् तदनु ते ब्रह्मचारिणो नवमजिनान्तरे साधुव्युच्छेदे सतिप्रगते यतिधर्मे केपि मिथ्यादृष्टयोऽब्रह्मचारिणो गृहस्था अभूवन् केपि सम्यग्दृष्टयो वैराग्यभाजो ब्रह्मचारिणः तेषामन्वयेऽहं सिद्धार्थनामाश्रावको महर्षिकृत सिद्धपुत्रापरनामा श्रीपरमानन्दकेवलिपार्श्वे गृहीताणुव्रतो ब्रह्मचारी तच्छिष्योमेरुगिरौ कृतपात्रः शत्रुञ्जयं प्रतिप्रस्थितो व्योममार्गस्थस्तवसभायां नास्तिकमतानुसारीणं मोहरतिमंत्रिणं जीवादिभावान् सतोपि निन्हनुवानमवलोक्याऽचागतवान् । इति १०९ For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy