________________
चन्द्रलेखाविजयप्रकरणम्]
[परिशिष्टम्-२
सोऽप्युत्पेदे स्वर्णकारस्तिर्यक्षु प्राग्मृता तु सा ।
तत्पल्युत्पद्य तिर्यक्षु पुत्रो विप्रकुलेऽभवत् ।। २१० ।। पंचाब्दके तत्र जाते तिर्यक्त्वात् स्वर्णकृत् स तु ।
तत्कुले भगिनीत्वेन तस्यैव समजायत ।। २११ ।। तस्याश्च पालकश्चके पितृभ्यां स तु दारकः ।
अतिदुष्टतयाऽरोदीत पाल्यमानाऽपि तेन सा ।। २१२ ॥ उदरस्पर्शनं तस्याः कुर्वता तेन चान्यदा ।
गुह्ये कथमपि स्पृष्टा सा न्यवर्तिष्ट रोदनात् ।। २१३ ।। तद्रोदनप्रतीकारं तं ज्ञात्वा स तु दारकः ।
तस्या रुदत्यास्तस्थानस्पर्श चक्रे तथैव हि ।। २१४ ।। तथा कुर्वन् पितृभ्यां सोऽन्यदा ज्ञातो निहत्य च ।
निर्वासितो निजगृहाद्ययौ च गिरिगह्वरे ॥ २१५ ।। शतानि पंचैकोनानि दस्यवो यत्र तेऽवसन् ।
तां पल्लीं सोऽगमत्तैश्च चौरैः संयुयुजेतराम् ।। २१६ ॥ तत्स्वसाऽनाप्ततारुण्याऽप्यभवत् कुलदैव सा ।
स्वेच्छया पर्यटन्ती च ग्रामे काप्यन्यदा ययौ ।। २१७ ।। तैस्तस्करैः स तु ग्रामस्तदैवागत्य लुण्टितः ।
गृहीता दारिका सा तु भार्थीचक्रेऽखिलैरपि ।। २१८ ॥ तेऽन्यदाऽचिन्तयंश्चौरा यदेकेयं वराकिका ।
सर्वेषां सेवयाऽस्माकं मरिष्यत्यचिरादपि ।। २१९ ।। ते विमृश्यैवमानिन्युरपरामपि योषितम् ।।
ईर्ण्यया पूर्वभार्या सा तच्छिद्राणि स्म मार्गति ।। २२० ।। चौराश्चौर्याय चान्येधुर्ययुः साप्याप्य तच्छलम् ।
उपकूपं सपत्नी तां निन्ये व्याजेन केनचित् ।। २२१ ॥ ऊचे च भद्रे ! कूपान्तः किमप्यस्तीह पश्य तत् ।।
साप्यूजुर्द्रष्टुमारेभे मध्ये क्षिप्ता ततस्तया || २२२ ।। आगता दस्यवस्ते च तां पप्रच्छुः क सा ननु ।
साऽवोचत् किमहं वेनि स्वप्रियां किं न रक्षथ ? || २२३ ॥ तैतिमनया यत्सा वराकी मारितेय॑या ।
दुःशीला मत्स्वसैषां किं विममर्शेति स द्विजः ।। २२४ ।।
१०७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org