________________
चन्द्रलेखाविजयप्रकरणम् ]
परमानन्दः- अष्टापदात् । परमद्य मार्गे समागच्छता अद्भुतमदर्शि ।
आज्ञासिद्धः- किम् ?
परमानन्दः - अवधत्तां प्रभुः ।
गोनर्दनगरनद्यास्तीरे नागेन्द्रभूषिते नित्यम् । अजितबला सा देवी दृष्टा साक्षाज्जगज्जननी ।। ३९ । आज्ञासिद्धः - (सविस्मयम् ) किं प्रत्यक्षीकृता विजयेन । परमानन्दः- न केवलं प्रत्यक्षीकृता वितीर्णफलाऽपि तस्मिन् समजनि । आज्ञासिद्ध: - किं महाचरुपाकोऽपि तत्र संवृत्तः ।
परमानन्दः - अथ किम् ।
आज्ञासिद्ध:- कथं कथम् ?
परमानन्दः - अवधारयन्तु प्रभुपादाः ।
देवीप्रसादमधिगम्य स कामधेनोः, स्तन्येन लब्धपरमाक्षतमिश्रितेन । कृष्णेन खेचरसमाहृतचित्रण, प्रज्वालिते चरुमुरुं पचति स्म वौ ॥ ४० ॥ (वसन्ततिलका) तप्राशनादथ वधूद्वितयेन सार्द्धं सिद्धस्य तस्य निखिला अपि सिद्धयस्ताः । सिद्धाः क्षणादपि गुरुर्जयतीति वक्तुः सिद्धव्रजः
विजयः- अमी ते गुरवः शुक्ल - ध्याननिर्णिक्तचेतसः ।
ततोऽञ्चितः सिद्धकदम्बकेन, सिद्धैः समस्तैरभिनन्द्यमानः । सुतेन मित्रेण सह प्रियाभ्यां द्रष्टुं गुरोः पादयुगं समेति ॥ ४२ ॥ ( उपजातिः) [ततः प्रविशति यथानिर्दिष्टो विजयः ]
निष्पन्दाक्षमवेक्षन्ते, मम पन्थानमुन्मुखाः || ४३ ॥ (उपसर्प्य सपादोपग्रहम् ) आत्मना प्रेक्षमाणाय, नित्यमात्मानमात्मनि । परब्रह्मानुरक्ताय, चिद्रूपाय नमोऽस्तु ते ॥ ४४ ॥ (इतरेऽपि नमस्कृत्य यथास्थानमुपविशन्ति )
आज्ञासिद्ध: - (शिरसि स्पृष्ट्वा )
[पञ्चमोऽङ्कः
निखिलोऽपि चकार सेवाम् ।। ४१ ।। (वसन्ततिलका)
(आय)
Jain Education International
९७
For Private & Personal Use Only.
(अनुष्टुप्)
प्राचीनजन्मसमुपार्जितदिव्यविद्ये, कामाशिषं त्वयि वयं वितराम एते ।
(अनुष्टुप्)
www.jainelibrary.org