SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ तारायणो ३३ निन्दन्ति दूषयन्ति । कीदृशम् । दृढं निश्चितं प्रतिपन्नः प्राप्तः साधितोऽन्त पुररक्षाव्यापारो येन तत्तया । के ते निन्दन्ति । 'अज्ज कंचुइणो' हे आर्य, स्वामिन्, कञ्चुकिनेो महल्लकाः । कीदृशाः सन्तो निन्दन्ति तदित्याह । 'निरस्थयवित्तिभुंजया' निरर्थिकां निःप्रयोजनां वृत्तिं जीवनं भुञ्जत इति निरर्थकवृत्तिभोजकाः । एतदुक्तं भवति । यदा तु परम सौभाग्यभाजनं भवन्तमनन्यगतचित्तया स्वयमेय परियक्तचापल्यमन्तःपुरं तवैव समागममभिलषत् सततमभिध्यायति । तदैतदीयसौभाग्येनैवान्तः पुरस्त्रियो रक्षिताः माऽस्माभिरिति निरर्थकां वृत्ति भुञ्जाना: कञ्चुकिनस्तव सौभाग्यं निन्दन्तीति ॥ O noble one, the chamberlains, having undrtaken devotedly the duty of guarding your harem, blame your loveliness, becaues it makes them draw their emoluments, without allowing them any scope for rendering service. (66) पुनरपि नरपतेः सौभाग्यं वर्णयति 'तई' इत्यादिना - [44] तडं दिटठे वियलिय-रूव मित्त-रह-चित्त- रंजणासंघो । मयणो विनियय-सत्थत्थ - पाळणा - संठलं पत्तो ॥ ६७ त्वयि दृष्टे स[9B]ति मदनोऽपि कामोऽपि 'नियय सत्थत्थ- पालनासंठल पत्तो' । मदनस्य निजशास्त्रं करणालिङ्गनादिविशेषविधिना स्त्रीवशीकरणं तस्य पालनाsनुष्ठानं तया निजशास्त्रार्थपालनया । 'संठल'- संठलमिति सामान्यभाषापदं न संस्कृतोत्थम् । तं निजशास्त्रार्थपालनाषण्ढत्वं प्राप्तः । कीदृशः सन् । विगलितं रूपमात्रं यस्यासौ विगलितरूपमात्रः । स चासौ रतिचित्तरञ्जनासंङ्घश्च विगलितरूपमात्र रतिचित्तरंजनासङ्घः । रतिस्तत्पत्नी । तस्याश्चित्तं तस्य रञ्जनं । तत्र 'आसंघा' अभिलाषा यस्य स तथा । एतदुक्तं भवति । खीयो हि रूपवति पुरुषे रज्यन्ते । कामश्च विगलितरूपोऽनंग: । पत्नीनां च रतिरेकैव वल्लभा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy