________________
२२
गाहाको
[१.४६
W44 ४६ ) अक्खडइ पिया हियए अन्नं महिलायणं रमंतस्स । दिट्ठे सरसम्मि गुणे सरिसम्मि गुणे अईसंते ॥४६॥ W45 ४७) नइपूरसच्छहे जुन्वणम्मि दियहेसु निच्चपहिए | अणियत्तासु य राई पुति किं दढमाणेण ॥४७॥
मुहदेउलचच्चराइँ सुन्नयाइँ जायाईं रथ्यामुखदेवकुलचत्वराणि शून्यानि जातानि । एतदुक्तं भवति । तस्मिंस्तिष्ठति किल तदीयानुपमरूपवत्तया, आलोकनकौतूहलोत्कलिकाकुलाभिः नगरनारीभिराकीर्यन्ते स्म रथ्यापथचैत्यचत्वराणि । अद्य तु तस्मिन् प्रोषिते न काचिदिह युवजनावेक्षणनिरवेक्षा (2) निजनिलयान्निष्क्रामति, इति । अथवा युवजनाकीर्णान्यपि तेन विना शून्यानि रथ्यादीनि प्रतिभासन्त इति । न केवलमिमानि शून्यानि । अम्हं च हिययाइं अस्माकं च हृदयानि । रथ्यामुखादीनां शून्यत्वं रिक्तत्वम् ॥ हृदयानां च शून्यत्वं तद्गतत्वम् । श्लेषदीपकच्छायोदयात् सहृदयचमत्कारिणी काsपि उक्तिवैचित्री समुल्लसतीति । पर्यायो क्तिर लंकारः । विषादो व्यभिचारी भावः । प्रच्छन्नो ( प्रवासो) विप्रलम्भशुङ्गारः । विरहिणी नायिका ॥ ४५ ॥
४६) धर्मिणस्य । [आस्खलति प्रिया हृदयेऽन्यं महिलाजन रमयतः । दृष्टे सदृशे गुणे सदृशे गुणे अदृश्यमाने || ] अन्नं महिलायणं रमंतस्स पिया हियए अक्खडइ अन्यं महिलाजनं रमयतः पुंसः प्रिया हृदये स्मृतिपथमेति । क्व सति । दिट्ठे सरिसम्म गुणे दृष्टे उपलब्धे सदृशगुणे । किमेतावदेव । नेत्याह । सरिसम्म गुणे अईसंते सदृशे गुणे अदृश्यमाने । यदा किल कान्तो अन्या रमणी रमयन् स्वगृहिणीगुणानुगुणं सकलकलाकौशलं पश्यति तदा तद्गुणसादृश्यात् तां स्मरति । अथ न पश्यति तदापि तस्यां ( तासु ) तत्संभोगसुखमनासादयन् प्रियां स्मरति, इति उभयथाऽपि स्मरणम् ||४६ ||
४७) कविराजस्य । [ नदीपूरसदृशे यौवने दिवसेषु नित्यपथि१w. अदीसंते; २w अइपवसिएसु दिअहेसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org