________________
232
प्राकृतसर्वस्वम्।
अष्टादशः पादः । वाचडो नगरात् सिध्येञ्चजोरुपरि यो भवेत् । षसोः शः स्यादभत्यादेः प्रकृत्या रऋतावुभौ ॥२१०॥ तदोष्टडौ पदादौ वा सैवेत्येतस्य सोरिज वा । खड्गस्य खंड भवते रप्रादौ वृषेर्वहः ॥ २११॥ ब्रूवो ब्रोः संस्कृतादिभ्यः शेषं लक्ष्यानुसारतः। अनयोर्यत्र साङ्कर्य तदिष्टमुपनागरम् ॥ २१२ ॥
ऊनविंशः पादः। पैशाचिकीनां भाषाणां प्रथमा केकयाभिधा। संस्कृते शौरसेन्यां च सिद्धस्यैवात्र विक्रिया ॥ २१३ ॥ पञ्चस्वाद्यावितरयोः शषोः सो णस्य नो भवेत् । र्यस्य रिअः प्राग्घ्रस्खो वा कार्य कञ्चं च दृश्यते ॥ २१४ ॥ युक्तविकर्षों बहुलं प्रागच्च ( स्यात् ) किहं च गृहे । कुपचि क्वचित् पृथिव्यां पृथुनी हृदये हितपकं स्यात् ॥ २१५ ॥ पक्षमणि पखमः सूक्ष्मे सुखमः स्याद्विस्मये पिसुमअः स्यात् । प्रथमे पृथुममिवस्य पिव क्त्वस्तूनमेव स्यात् ।। २१६॥ न्यण्यज्ञेषु जो वा टाङसिङस्ङिपु चि बा राज्ञः । नानोनयश्च तेषामिह शेष शौरसेनीवत् ॥ २१७ ॥ मागधीसदृशं रूपमिष्यते युष्मदस्मदोः। केवलं त्वेतयोर्भस्य फत्वं नेच्छन्ति सूरयः ।। २१८ ॥
विंशतितमः पादः। शौरसेनाभिधा त्वस्याः सस्य शो रस्य लो भवेत् । चवर्गस्योपरिष्टाद्यः कृतादिषु कडादयः ॥ २१९ ॥ क्षस्य च्छः स्थाविकृतेष्टस्य इतस्तत्थयोः श ऊर्ध्वं स्यात् । द्धस्य त्थः क्वचिदिति केचिदतः सोरेदमो वा स्यात् ॥ २२०॥ अधुनेत्यादिष्वर्थेष्वहुनीत्याद्याश्च दृश्यन्ते । शेषं तु प्राकृतवद् वदन्ति केचित्तु मागधीवट्ठा ॥ २२१॥ रलयोविपर्ययश्चेत् पाञ्चाली नाम पैशाची । इति षोडशधा भाषा मया प्रोक्ताः प्रयत्नतः ॥ २२२॥ इच्छा चेदितराद्धोध्यमत्रान्यमतवर्णितम्। संस्कृतसंकीर्णाभ्यां सहिता अष्टादशेत्याहुः॥ २२३ ॥ बालीकीपाञ्चाल्योरन्तर्भावाचतुर्दशेत्यपरे । संस्कृतसंकीर्णाभ्यां सह षोडश केवलं मते तेषाम् ॥ २२४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org