________________
१०४
मार्कण्डेयविरचितं
[८. ३० -
८.३०.
बहिं बाह्ये ।। १३९ ।। -- 'पाविट्ठ बहिं ठाहि' [ = पापिष्ठ बहिः तिष्ठ ] ॥ ८. ३१. खल जे" दे इ र पादप्रपूरणे प्रथमो द्वयक्षरः । अन्ये चत्वार एकाक्षराः। ---' दुक्खं खल जीवइ वराई । [ = दुःखं खलु जीवति वराकी ] । –'तुं जे जाणसि सव्वं ' [ = त्वं च जानासि सर्वम् ] ॥ ८.३२.
हाम एवमित्यर्थे । हाम भण, एवं भण ॥ ८. ३३. शेषं तु संस्कृतात् स्यात् उक्तादन्यच्छेषम् । जअइ । अअं । इअं । गमणं । पढणं । तवस्सी । हतुं । रंतुं । ---' वच्चइ पिअम्मि भणिअं' [ = व्रजति प्रिये भणितम् ] । व्रजति सतीति सप्तम्यन्तस्य परिणतिः । अह । जह । तह । एवमेवेत्यस्य वलोपे एमे। जाव, ताव, किंचि, इत्यादि ॥ ८. ३४.
तादृश एवात्र तु समासाः । तत्पुरुषादयः षट् समासाः संस्कृते ये इष्टौ अत्र प्राकृतेऽपि तादृश एव स्युः । राअपुरिसो । उवकुंभं । रामलक्खणा । धवखइरपलासं । णीलप्पलं । बहुधणो॥ ८. ३५. तत्र निषिद्धाश्च स्युः तत्र निषिद्धाश्च समासा इह प्राकृते स्युः । गहपंचमो गुरू । माणुससूरतमो खत्तिओ ॥ ८. ३६.
पूर्वनिपातोऽन्यथा प्रायः ॥ १४०॥ समासे संस्कृतविहितः पूर्वनिपातः प्राकृते प्रायोऽन्यथा स्यात् । धवखइरा,
35 UGIO ते ; evidently a mistake; जे is also used in Oriya in the same sense. 36 G ततोदन्मत्त.; IO ततोदन्यच.
37 UGIO चिदित्यादि ; A om. 38 U om.
39 UGIO ये यद्वि (शि in UG)ष्ट. 40 U गुम्मरअमो तुम्मर अमो; A अमो. 41 UGIO om. portions from विहितः up to this.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org...