________________
१२ मार्कण्डेयविरचितं
[ १. ३५ - उदृत्वादी ऋत्वादावृत उत् स्यात् ।
ऋतुर्मदङ्गो निभृतं वृतं परभृतो मृतः ।
प्रावृड्वृती तथा वृत्तवृत्तिभ्रातृकमातृकाः । - मृणालपृथिवीवृन्दावनजामातृकादयः ॥ उदू । मुइंगो। णिहुअं । वुदं, आवुदं, विवुदो, संवुदो, णिव्वुदो । परहुओ। मुओ। पाउसो। दिनावृषोः सः स्यात् (PS IV. 18) इति सः । वुदी, णिव्वुदी, संवुदी, आवुदी । वुत्तं, वुत्तंतो । पउत्तो, णिउत्तो । पउत्ती, णिउत्ती, वुत्ती । भाउओ। मादू , माउओ, माउआ। मुणालं । पुहई। बुंदावणं । जामाउओ । कचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति मअंको, मअंगो, पाअअं इत्यादि । अनयोर्गणयोराकृतिगणत्वात् मिणालं, विंदावणं, पाइअं, मुअंको, मुइंदो इत्यादि लक्ष्यानुसारात् ॥
अयुक्तस्य रिरिष्यते ॥ १४॥ वर्णान्तरेणायुक्तस्य ऋतो रिरिष्यते । ऋत इत्यंनुवर्तते । रिणं । रिद्धी । युक्तस्य तु कअं, हरं, वसहो ।। १.३७. क्वचिद्युक्तस्यापि वर्णान्तरेण युक्तस्य ऋतस्तेन वर्णेन सह रिः स्यात् । सरी । सरिसो । एरिसो।। कचिदिति प्रयोगानुसारार्थम् ॥ १.३८.
वृक्षे वेन रुवा वृक्षे वेन सह ऋतो रुर्वा स्यात् । रुक्खो, वच्छो ॥
लतस्तु लिः। केवलस्य । लतो लिः स्यात् । तुशब्दस्यावधारणार्थत्वान्नित्यम् । लिआरो॥ १. ४०. इलिः कृप्ते क्लप्ते लत इलिः स्यात् । किलित्तं । क्लप्तसारूप्यात् क्लप्तावपि, किलित्ती ॥
66 I om. 67 IO परदओ, probably in confusion with g in Oriya alphabet. 68 I om. 69 Mss. lack this line.
70 G alone adds this portion which seems to be appropriate.
71 UAG सरि; TO सरी.. 72 For rules 39 & 40, see FootNotes 2, p. 106, Les. Gram.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org