________________
APPENDIX
69
स्तादृशस्योपरिदेशावस्थानं वा, स च सम्बन्धनिवृत्तौ नित्यसिद्धार्हदनुग्रहाद्भवतीति । एवं जीवादयः पदार्था व्याख्याताः । एतत् सर्वं वस्तुजातं सत्त्वासत्त्वनित्यत्वानित्यत्वभिन्नत्वाभिन्न- त्वादिभिरनैकान्तिकमिच्छन्तः सप्तभङ्गीनयं नाम न्यायमवतारयन्ति - स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्तिच, स्यादवक्तव्यः स्यादस्ति चावक्तव्यः, स्यान्नास्ति चावक्तव्यः, स्यादस्ति च स्यान्नास्ति चावक्तव्यश्चेति । स्याच्छब्दो निपात:, यथाहुः "वाक्येष्वनेकान्तद्योती गम्यम्प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात् तिङन्तप्रतिरूपक" इति । तन्मतमिदं दूषयन्ति तद्विरोधेनासम्भवादयुक्तमिति, अयमर्थः, तन्मतसिद्धनिखिलपदार्थानां मध्य एकैकं पदार्थं धृत्वा तस्मिन् तस्मिन् सप्तभङ्गीनयावतारः कर्तव्यः, यथा हि जीवमुपादाय जीवः स्यादस्ति, जीवः स्यान्नास्ति, जीवः स्यादस्ति च नास्ति च, जीवः स्यादवक्तव्यः, जीवः स्यादस्ति चावक्तव्यः, जीवः स्यान्नास्ति चावक्तव्यः, जीवः स्यादस्ति च स्यान्नास्ति चावक्तव्यश्चेति, इति रीत्या सर्वत्र पदार्थेषु सप्तभङ्गान्वये क्रियमाणे एकस्यापि पदार्थस्य व्यवस्था न स्यादिति तन्मतरीत्यैव तन्मतोच्छेदः सुकर इति भावार्थ: ॥३३॥
ननु कथं बहिरुदासीनस्य तद्दूषणमत आह,
एवञ्चात्माकार्त्स्यम् ॥२.२.३४॥
एवमपि सत्यात्मनो वस्तुपरिच्छेदादकात्सर्यं न सर्वत्वम् ।
अथवा शरीरपरिमाण आत्मा चेत्तदा सर्वशरीराणामतुल्यत्वादात्मनो न कार्त्स्न्ये न कृत्स्नशरीरतुल्यत्वम् ॥३४॥
,
प्रदीपः
एवञ्चात्माकात्र्म्यम् ॥ ३४|| सूत्रमवतारयन्ति नन्वित्यादि, व्याकुर्वन्ति एवमित्यादि, एवं आत्मनिष्ठतया बहिर्दूषणानङ्गीकारे सत्यपि परमाणुभ्य एव सृष्ट्यङ्गीकारेणात्मनो वस्तुपरिच्छेदाङ्गीकारादकात्स्यं न सर्वत्वं स्यात्, तथा च मोक्षदशायामलोकाकाशवृत्तित्वेन तदाकाशावरणसम्भवान्मोक्षदशायां निरावरणत्वभङ्गप्रसङ्गः । नन्वाकाशावरणं नावरणं दिगम्बरादौ तथा प्रसिद्धेरत आहुः अथवेत्यादि, तथा च मनुष्य - शरीरपरिमाणस्य मनुष्यात्मनः कर्मविशेषेण गजशरीरप्रवेश एकदेश एव जीवस्तिष्ठेद्देशान्तरञ्च नैरात्म्यं स्यात्, न कात्र्म्यं न जीवस्य गजशरीरपरिमाणत्वम्
||३४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org