________________
66
Jainism from the view point of Vedāntic Acāryas ॥ एवञ्चाऽत्माकाय॑म् ॥२.२.३४।। जीवस्य शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थस्य हस्त्यादिशरीरेऽकात्यं स्यात्
॥ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥२.२.३५॥ तत्तच्छरीरस्थस्य तत्तत्परिमाणत्वमिति न वाच्यम् । विकारित्वादनित्यत्वप्रसक्तेः
॥ अन्त्यावस्थितेश्चोभयनित्यवादविशेषात् ॥२.२.३६॥
परिमाणाभावे स्वरूपाभावप्राप्त्याऽन्त्यपरिमाणस्थितेस्तदर्थत्वेन शरीरस्थितेरुभयनित्यवादविशेषेण सर्वशरीरनित्यत्वं स्यात् ॥★॥
अनुव्याख्यानम् ॥ आह क्षपणको विश्वं सदसद् द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥२३५॥ नैतत् पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः । भावाभावतया विश्वं येन रूपेण मीयते । तद्रूपमेव तदिति नियमः केन वार्यते ॥२३६॥ तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मता । यदि तैरखिलैर्दोषैलिप्यते चलदर्शनः ॥२३७॥ अतिहाय प्रमाणाप्त नियमं सदसत्तया । अशेषमाविरूद्धं च निर्मानं व्याहतं सदा ॥२३८॥ सर्वप्रकारं वदतो दृष्टहानिरमग्रहः । स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥२३९॥ वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् । दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥२४०॥ अन्यथाभावि यद् वस्तु तदनित्यमिति स्थितिः । तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम् ॥२४१॥ नानित्यताऽस्मत्पक्षे तु चैतन्यादेविशेषिणः । लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् ॥२४२।। ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः । इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥२४३॥ भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते । नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम् ॥२४४॥ रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये। व्याप्त्या तयाऽन्यथाभावादात्मनोऽनित्यता भवेत् ॥२४५॥ नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते । अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥२४६॥ कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते । संस्थानापगमश्चेत् स नहि भूसागरादिषु ॥२४७॥ यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी । देहमाने विकारः स्यादिति स्थास्नूननात्मनः ॥२४८॥ आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभावः । अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org