________________
APPENDIX
(I)
Bhaskarācārya (c. 900 A.D.) on Jainism (Brahmasutra-Bhaskarabhāsyam,
II. II. 33-36)
नैकस्मिन्नसम्भवात् ॥२.२.३३॥
इदानीमार्हतं मतं परीक्ष्यते । सप्त चैषां पदार्थाः शास्त्रसङ्ग्रहभूताः जीवाजीवास्रवसम्वरनिर्जरबन्धमोक्षा इति । तेषामपरः प्रपञ्चः पञ्चास्तिकायो नामजीवास्तिकाय: पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति । इमं च सप्तभङ्गीनयं नाम न्यायं सर्वत्रावतारयन्ति । स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति चावक्तव्यः स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यश्च स्यादस्ति च नास्ति चावक्तव्यश्चेति । तत्र जीवाजीवौ प्रसिद्धावाश्रावयति पुरुषं विषयेष्विन्द्रियवृत्तिभिरिति आश्रव उच्यते । अन्ये त्वार्हता व्याचक्षते कर्तारमभिव्याप्याश्रवत्यनुगच्छतीत्याश्रवं कर्मोच्यत इति । सम्वरः सम्बन्धः । निर्जरस्तपः पूर्वसञ्चितं कल्मषं निर्जरयतीति । अश्रान्तमौनी वीरासने तिष्ठति भोजनतप्तशिलारोहणकेशोल्लुञ्चनादिलक्षणम् । अष्टविधो बन्धः। दर्शनावरणीयं ज्ञानावरणीयं मोहनीयमन्तरीयमिति चत्वार्य्येतानि घातिकर्माण्युच्यन्ते । वेदनीयं नामिकं गोत्रिकमायुष्कमिति चत्वार्य्यघातिकर्माणि । बन्धनिवृत्तौ नित्यसिद्धार्हदनुग्रहान्मोक्षो भवतीति । पुदगलास्तिकाय इति परमाणवो ऽभिधीयन्ते । धर्मास्तिकायः प्रवृत्यनुमेयो ऽधर्मास्तिकायः स्थितिहेतुरमुक्तानाम् । आकाशास्तिकायो द्विधा भिद्यते लोकाकाशोऽलोकाकाशश्चेति । उपर्युपरिस्थितानां लोकानामन्तर्वर्ती लोकाकाशस्तेषामुपरिमोक्षस्थानमलोकाकाशस्तु परतो यत्र लोका न सन्ति । जीवास्तु त्रेधा भिद्यन्ते बद्धात्मानो मुक्तात्मानो नित्यसिद्धाश्चेति । ये मुक्तात्मानस्ते सर्वज्ञा निरतिशयसुखाश्चासत इति । तत्रेदमुच्यते नैकस्मिन्धर्मिण्यसम्भवात् । ननु पटरूपेण घटो नास्ति स्वेन रूपेणास्तीति को विरोधः । उच्यते स्वरूपेऽपि सप्तभङ्गीनयस्याविशेषात् । स्वरूपमस्तीत्यपि स्यान्नास्तीत्यपि तत्रानध्यवसानमेव स्यात् । किञ्च ये सप्त पदार्थास्ते तथैवान्यथा वा । ननु सर्वमनैकान्तिकमित्यवधारणं ज्ञानं निश्चितमेव नेत्युच्यते । अवधारणमप्यनैकान्तिकमेव स्यात् । अवधारणं स्यात् नास्ति चावधारणनमिति क्वचिन्निश्चयः स्यान्मोक्षोऽस्ति नास्तीत्यवधारणाद प्रवृत्तिरेव स्यात्तत्रैवं शास्त्रं प्रणयन्नुन्मत्ततुल्यस्तीर्थंकरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org