________________
२५८
:
स्विन्दवः, अष्टादश ते च ते दोषाश्च वस्विन्दुदोषाः तैः उज्झितस्त्यक्तः वस्विन्दुदोषोज्झितः तम् अष्टादशदोषरहितं, (अज्ञानं १, क्रोधः २, मदः (अष्टौ मदाः ) ३, अहंकार :- मानः ४, लोभः ५, माया ६, रतिः ७, अरतिः ८, निद्रा ९, शोकः १०, अलीकवचनं ११, चौर्य १२, मत्सरः १३, भयं १४, प्राणिवधः १५, प्रेमक्रीडा १६, प्रसङ्गः १७, हास्यम् १८, ) इत्येतेऽष्टादश दोषाः ॥ जातिमदः १, कुलमदः २, बलमदः ३, ऐश्वर्यमदः ४, लाभमदः ५, रूपमदः ६, तपोमदः ७, श्रुतमदः ८, इत्यष्टौ मदाः । जन्तूनां प्राणिनां करोतीति कारकः, हितस्य कारक : - हितकारकः, तं भावेन - उपयोगेन, प्रकर्षेण नमन्तीति प्रणमन्तः, तेषां भव्यो- मोक्षार्ह आत्मा येषां ते भव्यात्मानः, तेषां कल्याणानां—–सत्कार्यांणाम् आवलि:- पङ्किः कल्याणावलिः, सैव कन्दः, तस्य कन्दलनस्य भावः कन्दलनता, कल्याणावलिकन्दकन्दलनता तस्यां प्रावृषः पयो ददातीति पयोदो-मेघः उपमा यस्य सः कल्याणावलिकन्दकन्दलनताप्रावृट्पयोदोपमः, तं सुराश्च देवा:-असुराश्च दानवाः- सुरासुराः, तैर्नतम्, अर्हतीति अर्हन्, तं, श्रीश्चतुस्त्रिंशदतिशयाः, तया युक्तः श्रीयुक्तः, स चासौ आदिनाथश्च - श्री आदिनाथः तं प्रथमम् ऋषभं जिनेश्वरं सततं - निरन्तरं मुदा हर्षेणाहं श्रीपार्श्व चन्द्रसूरि : वन्दे - वन्दनं करोमीत्यर्थः ॥ १ ॥
भावार्थ —ण जगतना ईश्वर, गुणना भंडार, अढार दोष रहित, भावथी नमस्कार करनार भव्य जीवोनुं हित करनार, भव्य जीवोना कल्यागनी पंक्तिरूप कंदने अंकुरित करवामां वर्षाऋतुना मेघ समान अने देव-दानवोए जेने नमस्कार करेल छे; एवा प्रथम जिनेश्वर श्री आदिनाथने हुं (पार्श्व चन्द्रसूरि ) वांढुं कुं-स्तनुं लुं. १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org