SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ १८ स्वोपज्ञरहस्यवृत्तिविभूषितं र-ष-नान्तानां सङ्ख्यावाचिनामामो नाम् स्यात् । चतुर्णाम् । षण्णाम् । पञ्चानाम् । अष्टानाम् ।।३३॥ त्रेस्त्रयः ।१।४।३४॥ आम: सम्बन्धिनस्रेस्त्रय: स्यात् । त्रयाणाम् ।।३४।। एदोद्भ्यां ङसि-ङसो रः ।१।४।३५॥ ___ एदोभ्यां परयोः प्रत्येकं ङसि-ङसो र: स्यात् । मुनेः । मुनेः । गोः । गो: । द्यो: । द्योः ।।३।। खि-ति-खी-तीय उर् ।।४।३६॥ खि-ति-खी-तीसम्बन्धिनो यात् परयोर्डसि-डसोरुर् स्यात् । सख्युः । सख्युः । पत्युः । पत्यु: । सखायम् पतिं चेच्छतः सख्युः, पत्युः । य इति किम् ? अतिसखेः । अधिपते: ।।३६।। ऋतो डुर् ।।४।३७॥ ऋतः परयो: ङसि-ङसोर्डर् स्यात् । पितुः । पितुः ।।३७|| तृ-स्वसृ-नप्त-नेष्ट-त्वष्ट-क्षत्तृ-होतृ-पोतृ-प्रशास्त्रो घुट्यार ।।४॥३८॥ तृच्-तृन्नन्तस्य स्वस्रादीनां च ऋतो घुटि परे आर् स्यात् । कर्तारम् । . कर्तारौ । कर्तारः । स्वसारम् । नप्तारम् । नेष्टारम् । त्वष्टारम् । क्षत्तारम् । होतारम् । पोतारम् । प्रशास्तारम् । घुटीति किम् ? कर्तृ कुलं पश्य ॥३८|| अझै च ।१।४॥३९॥ ऋतो ङौ घुटि च परे अर् स्यात् । नरि । नरम् ।।३९।। मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्त्र्ये ।।४।४०॥ मातुरामन्त्र्ये पुत्रे वर्तमानस्य सिना सह मात: स्यात्, अर्हे प्रशंसायाम् । हे गार्गीमात ! । पुत्र इति किम् ? हे मात: !, हे गार्गीमातृके वत्से ! । अर्हे इति किम् ? अरे गार्गीमातृक ! ।।४०।। ह्रस्वस्य गुणः ।१।४॥४१॥ आमन्त्र्यार्थवृत्तेईस्वान्तस्य सिना सह गुण: स्यात् । हे पित: ! । हे मुने ! ।।४१|| एदापः ।१॥४॥४२॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy