SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धाचलमण्डन-ऋषभदेवस्वामिने नमः । श्रीशान्तिनाथाय नमः। श्रीशद्धेश्वरपार्श्वनाथाय नमः। श्रीमहावीरस्वामिने नमः । श्रीगौतमस्वामिने नमः। पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः । आमुखम् । अनन्तोपकारिण: परमकृपालो: परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भुवनविजयजीतातपादानां च कृपया साहाय्येन च तालपत्रोपरिलिखितैकमात्रादर्शानुसारेण संशोध्य सम्पाद्य च स्वोपज्ञरहस्यवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनं विदुषामध्येतॄणां तद्भक्तानां च पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । विरचयितारः ___ परमार्हतकुमारपालभूपालप्रतिबोधकाः कलिकालसर्वज्ञा विश्वविख्याता आचार्यभगवन्त: श्रीहेमचन्द्रसूरीश्वरा अस्य विरचयितारः । गुर्जरदेशाधिपते: सिद्धराज-जयसिंहदेवस्य प्रार्थनया ११९४ तमविक्रमसंवत्सरस्य प्रान्ते ११९५ तमविक्रमसंवत्सरस्य प्रारम्भे वा सर्वाङ्गसम्पूर्णमिदं शब्दानुशासनं विरचितमिति ऐतिह्यविद आमनन्ति । ____ आचार्यभगवतां श्रीहेमचन्द्रसूरीश्वराणां संक्षिप्तं जीवनवृत्तम् । ११४५ तमे वैक्रमे वर्षे कार्तिक्यां पूर्णिमायां धंधुकानगरे जन्म । पितुर्नाम चाचिगइति, मातुर्नामपाहिनीइति, चांगदेव इति पुत्रस्यनाम। परमविदुषामाचार्यभगवतां देवचन्द्रसूरीश्वराणां समीपे केषांचिद् मतेन वैक्रमे ११५० तमे वर्षे, अपरेषां मतेन ११५४ तमे वर्षे माघशुक्लचतुर्दश्यां शनिवासरे स्तम्भतीर्थे (खंभातनगरे) प्रव्रज्या। ११६६ तमे वर्षे नागपुरे सूरिपदे प्रतिष्ठा, पाहिन्याश्च प्रव्रज्या। प्रव्रज्यासमये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy