________________
२०८
स्वोपज्ञरहस्यवृत्तिविभूषितं
[सप्तमाध्याये चतुर्थः पादः ] वृद्धिः स्वरेष्वादेर्च्छिति तद्धिते | ७|४|१ ||
ञिति णिति च तद्धिते परे प्रकृतेः स्वराणां मध्ये आद्यस्वरस्य वृद्धिः स्यात् । दाक्षिः, भार्गवः । तद्धित इति किम् ? चिकीर्षकः || १ || य्वः पदान्तात् प्रागैदौत् |७|४|५||
पदान्ते वर्तमानाभ्यां यकारवकाराभ्यां प्राक् ञ्णिति तद्धिते यथासङ्खयमैदौतौ स्याताम् | नैयायिकः, सौवश्वः । पदान्तादिति किम् ? यत इमे याताः ||२|| द्वारादेः |७|४|६||
एषां यौ य्वौ तयोः समीपस्य स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ ताभ्यामेव प्रागैदौतौ स्यातां ञ्णिति तद्धिते । दौवारिकः, सौवरो ग्रन्थः || ३||
न ञ- स्वङ्गादेः | ७|४५९॥
ञान्तस्य स्वङ्गादेश्च ञ्णिति तद्धिते य्वः प्रागैदौतौ न स्याताम् । व्यावक्रोशी, स्वाङ्गिः, व्याङ्गिः ||४||
विन्- मन्तोर्णीष्ठेयंसौ लुप् |७|४|३२||
विन्मन्त्वोरेषु परेषु लुप् स्यात् । स्रजयति, स्रजिष्ठः, स्रजीयानू, त्वचयति, त्वचिष्ठः त्वचीयान् ||५||
प्रशस्यस्य श्रः |७|४|३४||
अस्य ण्यादौ श्रः स्यात् । श्रयति, श्रेष्ठः, श्रेयान् ॥६॥ वृद्धस्य च ज्यः | ७|४|३५||
अस्य प्रशस्यस्य च ण्यादौ ज्यः स्यात् । ज्ययति, ज्येष्ठः ||७||
प्रिय स्थिर - स्फिरोरु-गुरु- बहुल- तृप्र-दीर्घ वृद्ध-वृन्दारकस्येमनि च - प्रा-स्था-स्फा-वर-गर - बंह- त्रप - द्राघ - वर्ष -
-वृन्दम् |७|४|३८|
;
;
प्रियादीनां यथासंभवमिमनि ण्यादौ च यथासंख्यमेते स्युः । प्रेमा, प्रापयति, प्रेष्ठ, प्रेयान् स्थेमा, स्थापयति, [स्थेष्ठ:,] स्थेयान् स्फापयति, वरिमा, गरिमा, बंहिमा, त्रपिमा, द्राघिमा, [वर्षिमा, ] वृन्दिमा ॥८॥ पृथु-मृदु-भृश- कृश- दृढ- परिवृढस्य ऋतो रः | ७|४|३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org