________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१८१
चिर-परुत्-परारेस्त्नः ।६।३१८५॥ एभ्यः शेषेऽर्थे नो वा स्यात् । चिरत्नम्, परुत्त्नम्, परारित्नम् ; चिरंतनम्, परुत्तनम्, परारितनम् ।।२३।।
पुरो नः ।६।३।८६॥ पुराशब्दात् कालार्थाच्छेषेऽर्थे नो वा स्यात् । पुराणम्, पुरातनम् ।।२४॥
- पूर्वाह्ला-ऽपराह्नात् तनट् ।६।३१८७॥ आभ्यां शेषेऽर्थे तनड् वा स्यात् । पूर्वाह्नेतनः, अपराह्नेतनः ; पौर्वाह्निकः, आपराह्निकः ॥२५॥
सायं-चिरं-प्राढे-प्रगे-ऽव्ययात् ।६।३।८८॥ एभ्योऽव्ययाच कालार्थाच्छेषेऽर्थे तनड् नित्यं स्यात् । सायंतनम्, चिरन्तनम्, प्रारूतनम्, [प्रगेतनम्,] दिवातनम् ।।२६।।
भर्तु-सन्ध्यादेरण् ।६।३।८९॥ ___भं नक्षत्रम्, तदर्थाद् ऋत्वर्थात् सन्ध्यादेश्व कालार्थाच्छेषेऽर्थेऽण् स्यात् । पौष:, ग्रैष्मः, सान्ध्यः, आमावास्यः ।।२७।।
संवत्सरात् फल-पर्वणोः ।६।३।९०॥ अस्मात् फले पर्वणि च शेषेऽर्थेऽण् स्यात् । सांवत्सरं फलं पर्व वा ॥२८॥
प्रावृष एण्यः ।६।३।९२॥ अस्माच्छेषेऽर्थे एण्य: स्यात् । प्रावृषेण्यः ।।२९।।
तत्र कृत-लब्ध-क्रीत-सभ्भूते ।६।३।९४॥ तत्रेति सप्तम्यन्तादेष्वर्थेषु यथायोगमणादय एयणादयश्च स्युः। स्रौघ्नः, औत्सः, बाह्यः, नादेयः, राष्ट्रियः ॥३०॥
कुशले ।६।३।९५॥ सप्तम्यन्तात् कुशलेऽर्थे यथाविहितमणेयणादय: स्युः । माथुरः, नादेयः ॥३१।।
जाते ।६।३।९८॥ सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादय: स्युः । माथुरः, औत्सः, बाह्यः, नादेय:, राष्ट्रियः ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org