SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १८० स्वोपज्ञरहस्यवृत्तिविभूषितं दोरीयः ।६।३॥३२॥ देवदत्तीयः, तदीय: ।।१३।। उष्णादिभ्यः कालात् ।६।३॥३३॥ उष्णादिपूर्वपदात् कालान्ताच्छेषे ईय: स्यात् । उष्णकालीयम् ।।१४।। वा युष्मदस्मदोऽजीनञौ युष्माका-ऽस्माकं चास्यैकत्वे तु तवकममकम् ।६।३।६७॥ आभ्यां शेषेऽर्थेऽञीनञौ वा स्याताम्, तद्योगे च यथासङ्ख्यं युष्माका-ऽस्माको, एकार्थयोस्तु तवक-ममकौ । यौष्माकी, यौष्माकीण: ; आस्माकी, आस्माकीनः ; युष्मदीयः, अस्मदीयः ; तावकः, तावकीन: ; मामकः, मामकीनः ; त्वदीयः, मदीयः ॥१५|| अमोऽन्ता-ऽवो-ऽधसः ।६।३।७४॥ अन्तादेः शेषेऽर्थेऽम: स्यात् । अन्तमः, अवमः, अधमः ।।१६।। पश्चादाद्यन्ता-ऽग्रादिमः ।६।३।७५॥ पश्चिमः, आदिम:, अन्तिमः, अग्रिमः ॥१७॥ मध्यान्मः ।।३७६॥ मध्ये जातो मध्यमः ॥१८॥ मध्य उत्कर्षा-ऽपकर्षयोरः ।६।३।७७॥ अनयोर्मध्यार्थान्मध्याच्छेषेऽर्थे अ: स्यात् । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिणामो मध्यो विद्वान् ।।१९।। अध्यात्मादिभ्य इकण् ।६।३।७८॥ एभ्य: शेषेऽर्थे इकण् स्यात् । आध्यात्मिकम्, आधिदैविकम् ॥२०॥ समानपूर्व-लोकोत्तरपदात् ।६।३।७९॥ समानशब्दपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण् स्यात् । सामानग्रामिकः, ऐहलौकिक: ।।२१।। । वर्षा-कालेभ्यः ।६।३।८०॥ वर्षाया: कालविशेषार्थाच्च शेषेऽर्थे इकण् स्यात् । वार्षिकः, मासिकः ।।२२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy