SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [चतुर्थाध्याये तृतीय: पाद:] नामिनो गुणोऽक्ङिति ।४।३॥१॥ नाम्यन्तस्य धातो: क्डिद्वर्जे प्रत्यये गुण: स्यात् । चेता । अक्डितीति किम् ? युतः ॥१|| उ-श्नोः ।४।३।२॥ धातोरुश्नो: प्रत्यययोरङिति गुण: स्यात् । तनोति, सुनोति ।।२।। पुस्-पौ।४।३।३॥ नाम्यन्तस्य धातो: पुसि पौ च गुण: स्यात् । ऐयरु:, अर्पयति ।।३।। लघोरुपान्त्यस्य ।४॥३॥४॥ धातोरुपान्त्यस्य नामिनो लघोरक्ङिति गुणः स्यात् । भेत्ता । लघोरिति किम् ? ईहते । उपान्त्यस्येति किम् ? भिनत्ति ।।४।। मिदः श्ये।४॥३॥५॥ मिदेरुपान्त्यस्य श्ये गुण: स्यात् । मेद्यति ।।५।। जागुः किति ।४।३।६॥ जागु: किति गुण: स्यात् । जागरितः ।।६।। ऋवर्ण-दृशोऽङि ।४।३।७॥ ऋवर्णान्तानां दृशेश्चाऽङि परे गुण: स्यात् । असरत्, अजरत्, अदर्शत् ।।७।। स्कृच्छृतोऽकि परोक्षायाम् ।४।३।८॥ स्कृच्छो: ऋदन्तानां च नामिनः परोक्षायां गुण: स्यात्, न तु कोपलक्षितायां कसु-काने । सञ्चस्करु:, आनछुः, तेरुः । अकीति किम् ? सञ्चस्कृवान् ।।८।। संयोगादर्तेः ।४।३॥९॥ संयोगात् परो य ऋत् तदन्तस्याऽर्तेश्च परोक्षायामकि गुण: स्यात् । सस्मरु:, आरु: । संयोगादिति किम् ? चक्रुः ।।९।। क्य-यङाऽऽशीर्ये ।४।३।१०॥ संयोगाद् य ऋत् तदन्तस्याऽर्तेश्च क्ये यङि आशीर्ये च गुणः स्यात् । स्मर्यते, स्वर्यते, अर्यते ; सास्वर्यते, अरार्यते ; स्मर्यात्, अर्यात् ।।१०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy