________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
अवश्यरञ्ज्यम् । आवश्यक इति किम् ? पाक्यम् ॥९७||
नि-प्राद् युजः शक्ये।४।१।११६॥ आभ्यां युज: शक्ये गम्ये घ्यणि गो न स्यात् । नियोज्य:, प्रयोज्य: । शक्य इति किम् ? नियोग्यः ।।९८।।
भुजो भक्ष्ये ।४।१।११७॥ ___ भुजो भक्ष्यार्थे घ्यणि गो न स्यात् । भोज्यं पयः । भक्ष्य इति किम् ? भोग्या भूः ॥९९।।
त्यज-यज-प्रवचः ।४।१।११८॥ एषां घ्यणि क-गौ न स्याताम् । त्याज्यम्, याज्यम्, प्रवाच्यः ।।१००॥
वचोऽशब्दनाम्नि ।४।१।११९॥ अशब्दसंज्ञायां वचेय॑णि को न स्यात् । वाच्यम् । अशब्दनाम्नीति किम् ? वाक्यम् ।।१०१।।
चतुर्थस्य प्रथमः पादः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org