SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । तादौ सनि दीर्घो वा स्यात् । तितांसति, तितंसति । धुटीत्येव, तितनिषति ||८९|| क्रमः क्त्वि वा | ४|१|१०६॥ क्रम धुडादौ क्वि दीर्घो वा स्यात् । क्रान्त्वा, क्रन्त्वा । धुटीत्येव, क्रमित्वा 118011 अहन्-पञ्चमस्य क्वि- क्ङिति |४|१|१०७॥ हन्वर्जस्य पञ्चमान्तस्य कौ धुडादौ च क्ङिति दीर्घः स्यात् । प्रशान्, शान्तः, शंशान्तः । पञ्चमस्येति किम् ? पक्त्वा । अहन्निति किम् ? वृत्रहण | धुटीत्येव, ते || १ || ९७ अनुनासिके चच्छ्र-वः शूट् |४|१|१०८ ॥ अनुनासिकादी कौ धुडादौ च धातोः च्छ्वोर्यथासंवत्यं शू - ऊटी स्याताम् । प्रश्नः, शब्दप्राशौ, पृष्टः, स्योमा, अक्षद्यूः, द्यूतः ||९२ || मव्यवि श्रिवि - ज्वरि - त्वरेरुपान्त्येन | ४|१|१०९॥ - एषामनुनासिकादी कौ धुडादौ च प्रत्यये उपान्त्येन सह ऊटू स्यात् । मोमा, मूः, मूति: ; उमा, ओम्, ऊः, ऊतिः ; श्रोमा, श्रूः, श्रूतः ; जूर्मा, जूः, जूर्त्तिः ; तूर्मा, तू, तूर्णः ||९३ || रालुक् ।४।१।११०॥ रात् परयोः छ्वोरनुनासिकादौ कौ धुडादौ च प्रत्यये लुक् स्यात् । मोर्मा, मूः, मूर्त्तः; तोर्मा, तू, तूर्णः ॥ ९४ ॥ तेsनिटश्व- जोः क - गौ घिति |४|१|१११ ॥ क्तेऽनिटो धातोश्च-जोर्घिति यथासंख्यं क - गौ स्याताम् | पाकः, भोग्यम् | क्तेऽनिट इति किम् ? सङ्कोचः, कूजः ||९५|| न वञ्चेर्गतौ ।४।१।११३॥ गत्यर्थस्य वञ्चेः कत्वं न स्यात् । वञ्चं वञ्चन्ति । गताविति किम् ? बङ्कं काष्ठम् ||१६|| Jain Education International घ्यण्यावश्यके । ४।१।११५ ॥ आवश्यकोपाधिके घ्यणि च जो: क- गौ न स्याताम् । अवश्यपाच्यम्, For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy