SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं च वाच्ये यथाक्रमं स्युः । स पचति, तौ पचतः, ते पचन्ति । पचते, पचेते, पचन्ते । त्वं पचसि, युवां पचथः, यूयं पचथ । पचसे, पचेथे, पचध्वे । अहं पचामि, आवां पचावः, वयं पचामः । पचे, पचावहे, पचामहे । एवं सर्वासु । द्वययोगे त्रययोगे च पराश्रयमेव वचनम् । स च त्वं च पचथः, च त्वं न अहं च पचामः || १६ || स एक द्वि- बहुषु । ३।३।१८ ॥ - अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येक-द्वि- बहुष्वर्थेषु स्युः । स पचति, तौ पंचतः, ते पचन्तीत्यादि ||१७|| नवाऽऽद्यानि शन्तृ-कंसू च परस्मैपदम् ।३।३।१९॥ ७४ सर्वविभक्तीनामाद्यानि नव नव वचनानि शन्तृ - कंसू च परस्मैपदानि स्युः । तिव्, तस्, अन्ति; सिव्, थस्, थ; मिव् वस् मस् । एवं सर्वासु ।। १८ ।। पराणि काना-ऽऽनशौ चाऽऽत्मनेपदम् | ३ | ३|२०|| सर्वविभक्तीनां पराणि नव नव वचनानि कानानशौ चाऽऽत्मनेपदानि स्युः । ते, आते, अन्ते; से, आथे, ध्वे; ए, वहे, महे । एवं सर्वासु || १९|| तत् साप्या-sनाप्यात् कर्म - भावे, कृत्य क्त - खलर्थाश्च । ३।३।२१ ॥ तद् आत्मनेपदं कृत्य- क्त - खलर्थाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच्च भावे स्युः । क्रियते कटश्चैत्रेण, चक्राणः, क्रियमाणः, भूयते त्वया, भूयमानम्, क्रियते, मृदु पच्यते । कार्यः कर्त्तव्यः करणीयः देयः कृत्यः कटस्त्वया, शयितव्यम्, शयनीयम्, शेयम्, कार्यम्, कर्त्तव्यम्, करणीयम्, देयम्, कृत्यं त्वया । कृतः कटः, शयितम्, कृतं त्वया । सुकरः कटस्त्वया, सुशयम्, सुकरं त्वया, सुकटंकराणि वीरणानि, ईषदाढ्यम्भवं भवता, सुज्ञानं तत्त्वं मुनिना, सुग्लानं दीनेन ||२०|| इङितः कर्त्तरि |३|३|२२|| इदितो ङितश्च धातोः कर्त्तर्यात्मनेपदं स्यात् । एधते, एधमानः, शेते, शयानः ॥२१॥ ई- गितः | ३|३|९५ ॥ Jain Education International For Private & Personal Use Only > www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy